Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith
View full book text
________________ हेमचन्द्राचार्यरचितत्रिषष्टिशलाकापुरुपचरितप्रशस्तिः / शिष्यो जम्वुमहामुनेः प्रभव इत्यासीदमुष्यापि च श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः / संभूतो मुनिभद्रयाहुरिति च द्वौ तस्स शिष्योत्तमी संभूतस्य च पादपद्ममधुलिट् श्रीस्थूलभद्रायः // 1 // वंशक्रमागतचतुर्दर्शपूर्रनकोशस्य तस्य दशपूर्वधरो महर्षिः / नामा महागिरि रिति स्थिरतागिरीन्द्रो ज्येष्ठोऽन्तिषत् समजनिष्ट विशिष्टलन्धिः // 2 // शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो नाम्ना सुहस्तीत्यभूदु यत्पादाम्बुजसेवनात् समुदितप्राज्यप्रबोधर्दिक / चक्रे संप्रतिपार्थिवः प्रतिपुर-ग्रामाकरं भारतेऽस्मिन्न॰ जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि // 3 // अजनि सुस्थित-सुप्रतिबुद्ध इत्यभिधाऽऽर्यसुहस्तिमहामुनेः / शमधनो दशपूर्वधरोऽन्तिषद् भवमहातरुभञ्जनकुञ्जरः // 4 // महर्षिसंसेवितपादसन्निधेः प्रचारभागालवणोदसागरम् / महान् गणः कोटिक इत्यभूत् ततो गाप्रवङ्गाहो हिमवद्भिरेरिव // 5 // तस्मिन् गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी / उद्दामतुम्बवनपत्तनवज्रखानि-वज्रं महामुनिरजायत वज्रसूरिः // 6 // दुर्भिक्षे समुपस्थिते प्रलयवद्धीमत्वभाज्यन्यदा भीतं न्यस्य महर्षिसमभितो विद्यावदातः पटे / योऽभ्युद्धृत्य कराम्बुजेन नमसा पुर्यामनषीन्महापुर्या मङ्गु सुभिक्षधामनि तपोधाम्नामसीनां निषिः // 7 // तस्माद् वज्राभिधा शाखाऽभूत् कोटिकगणद्रुमे / उच्चनागरिकामुख्यशाखात्रितयसोदरा // 8 // तस्यां च वज्रशाखायां निलीनमुनिषट्पदः / पुष्पगुच्छायितो गच्छश्चन्द्र इत्याख्ययाऽभवत् // 9 // धर्मध्यानसुधासुधांशुरमलग्रन्थार्थरत्नाकरो भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः / गच्छे तत्र बभूव संयमधनः कारुण्यराशिर्यशोभद्रः सूरिरपूरि येन भुवनं शुभैर्यशोभिर्निङः // 10 // श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां कृत्वाऽऽदौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानमाक् / तिष्ठन् शान्तमनास्त्रयोदश दिनान्याश्चर्यमुत्पादयन्नुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् // 11 // श्रीमान् प्रद्युम्नसरिः समजनि जनितानेकभव्यप्रबोधस्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्मोदवद्या। प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्धृतैरर्थनीरैरातत्य स्थानकानि श्रुतिविषयसुधासारसध्यश्च विष्वक् // 12 // सर्वग्रन्थरहस्यरत्नमुकुरः कल्याणवल्लीतरुः कारुण्यामृतसागरः प्रवचनव्योमाङ्गणाहस्करः / चारित्रादिकरत्नरोहणगिरिः क्ष्मां पावयन् धर्मराट् सेनानीर्गुणसेनसूरिरभवच्छिष्यस्तदीयस्ततः // 13 // शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृजङ्गमं स्याद्वादत्रिदशापगाहिमगिरिविश्वप्रबोधार्यमा / कृत्वा स्थानकवृत्ति-शान्तिचरित प्राप्तः प्रसिद्धि परां सूरि रितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् // 14 //

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242