Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith

View full book text
Previous | Next

Page 162
________________ कुमारपालप्रबोधप्रबन्ध ऋषमाधाः समवस्ताः। महाविदेहनिवासिनोऽपि सम्यग्दृष्टयो लोका मानसिकमावेन नित्यं स्मरणं कुर्वन्तीति / प्रथम श्रीऋषभकेवलोदयाद् भरतेन प्रमाणोपेतं रत्नमयं हैम रूप्यं च बिम्बत्रयं कारितम् / द्वाविंशतिदेवकुलिकाकलितं हैमचैत्यं च / ततोऽसंख्या उद्धारा जाताः, प्रतिमाश्च असंख्याताः, कोटाकोव्यश्च सिद्धाः / पुण्डरीकगणधरः पञ्चकोटिभिः सह मुक्तिं गतः / विड-बालिखिलादयो दशकोटिभिः / नमि-विनमी विद्याधरौ कोटिद्वयेन / श्रीऋषभसन्ताने भरतेश्वरराज्ये आदित्ययशा महायशा अतिबलः बलभद्रः बलवीर्यः कार्तवीर्यः जलवीर्यः दंडवीर्यत्रिखण्ड-। भोक्तारः प्रथमसंघाधिपतिश्रीभरतेश्वरवत् प्राप्तसंघाधिपत्या आदर्शभवनप्राप्तकेवलज्ञाना बहुतरेक्ष्वाकुराजराजकुमारपरिवृताः श्रीशत्रुञ्जये सिद्धाः / अन्येऽपीक्ष्वाकुवंशराजान आदित्ययशाद्याः सगरपर्यन्ताः पञ्चाशत्कोटिलक्षसागराणि यावत् सर्वार्थसिद्ध्यन्तरचतुर्दशलक्षादिश्रेणीभिरसंख्याताभिरत्र मुक्तिं गताः / श्रीरामादीनां कोटित्रयं सिद्धम् / पाण्डवानां विंशतिकोटयः / प्रद्युम्न-शाम्बादीनां सार्धष्टौ कोटयः / नारदाद्याः एकनवतिलक्षाः / अत्रैवाजित-शान्तिजिनौ वर्षाकालमवस्थितौ / मरुदेवीचैत्यं स्वर्णमयं पुरा बाहुबलिना कारितम् / मरुदेवीसमीपे शान्तिचैत्यं पुरा / सुवर्णमयम् , तदने त्रिंशता हस्तैरधः पुरुषसप्तकेन सुवर्ण-रूप्यखानिद्वयम् / ततो हस्तशतेन पूर्वद्वारा रसकूपिका / श्रीशान्तिचैत्याद् हस्ताष्टकेनोद्धारयोग्यं सुवर्ण पादलिप्ताचार्योपदेशेन नागार्जुनेन स्थापितमस्तीति लोकोक्तिः / अष्टमतपसा तुष्टः कपर्दियक्षः श्रीभरतकारितां प्रतिमां वन्दापयति, यदि कश्चित् सत्त्ववानेकावतारी भवति / कल्की दत्तो नाम तीर्थ सपूजं कारयिष्यति / तत्पुत्रो मेघघोषश्वोद्धारम् / ततः 2214 अनन्तरम्५२१. नंदी सूरी अजे सिरिप्पभे माणिभद्द-जसमित्ते / धणमित्त-धम्मवियडे सुमंगले सूरसेणे य // 522. एए होही उद्धारकारया जाव सूरिदुप्पसहो। पच्छिमउद्धारकरो होही इह विमलवाहणओ॥ 523. वुच्छिन्ने वि य तित्थे होही कूडं तु उसहसामिस्स / जा पउमनाह तित्थं मुराइकयपूयसंजुत्तं ॥-इति तीर्थमहिमा / 693. अथ राजन् ! रैवतकतीर्थमपि महासुप्रभावं प्रत्यासन्नं च वर्तते। अस्य महिमा श्रीविद्याप्राभृते तीर्थमाहात्म्ये गणधरैरुक्तः / श्रीभारत्या काञ्चनबलानके श्रीनेम्यादिमूर्त्तिनमस्करणागतया नारदस्य पुरः प्रोक्तस्तेन च लिखितः / इदं तीर्थमनादियुगीनमाहुः / अवसर्पिण्यामयं शैलः षड्विंशति-विंशति-षोडश-दश-द्वियोजन-धनुःशतोचशिराः / अनादिकाले यस्मिन्नर्हन्तोऽनन्तसिद्धाः / यस्याकारं सुरासुरनरेशास्त्रिभुवनेऽपि पूजयन्ति / अनन्ततीर्थकृतामत्र कल्याणकत्रयमभूत् / अतीतचतुर्विंशतिकायां नमीश्वराद्यानामष्टजिनानां कल्याणकत्रयमभूत् / अस्यां श्रीनेमिनाथस्य / / श्रीपद्मनाभाद्या द्वाविंशतिजिना इह सेत्स्यन्ति / इयं मूर्तिब्रह्मेन्द्रकृताऽस्या विंशतिसागरोपमकोठ्योऽभूवन् / श्रीऋषभादेशात् भविष्यतो नेमेतिहमी रूप्या च भरतेन पूर्व स्थापिता रत्नमयी चन्द्रार्पिता / अस्यान्तःकाञ्चनबलानके शक्रनिर्मिते रत्नमूर्तिरस्ति शक्रकृता / शक्रकृतं गजेन्द्रपदकुण्डं सर्व कं भद्रशालवनं पूजार्थम् , पञ्चमारकपर्यन्ते श्रीनेमिमूर्तिः स्वर्गे सुरेन्द्रपूज्या भविष्यति, उत्सपिण्यां पुनरत्र / यस ध्यानेनान्यत्रापि स्थिता भव्या भवचतुष्केन . मोक्षं यान्ति / इदं तीर्थ सर्वदा सुरासुराच॑म् / तथा श्रीभद्रयाहुप्रणीतं श्रीवनखामिनोद्धृतं स्वरूपमिदम् - " ___ "छत्तसिलाए सिलासणे दिक्खं पडिवन्नो नेमी / सहसंबणे केवलनाणं / लक्खारामे देसणा / अवलोयणाउच्चसिहरे निधाणं / रेवयमेहलाए कण्हो तत्य कल्लापतिगं नाऊण सुवण-रयणपडिमालंकियं चेईयतिगं, अंबादेविं च करावेइ / इंदो वि गिरि कोरिऊण सुवन्नवन्नं बलाणय रुप्पमयं चेईयं रयणमया पडिमा प्रमाणवबोववेया / कु.पा.च.१४

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242