Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith

View full book text
Previous | Next

Page 216
________________ // कुमारपालप्रतिबोधप्रशस्तिः // सूर्याचन्द्रमसौ कुतर्कतमसः कर्णावतंसौ क्षिते (यों धर्मरथस्य सर्वजगतस्तत्त्वावलोके दृशौ / निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभा वेकः श्रीमुनिचन्द्रसूरिरपरः श्रीमानदेवप्रभुः // तयोर्बभूवाजितदेवरिः शिष्यो बृहद्गच्छनभःशशाङ्कः / जिनेन्द्रधर्माम्बुनिधिः प्रपेदे घनोदकः स्फूर्तिमतीव यस्मात् // श्रीदेवसूरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसा / येषामबाधारचितस्थितीनां नालीकमैत्रीमुदमाततान // विशारदशिरोमणेरजितदेवसूरेरभूत्, क्रमाम्बुजमधुव्रतो विजयसिंहरिः प्रभुः / मितोपकरणक्रियारुचिरनित्यवासी च यश्चिरन्तनमुनिव्रतं व्यधित दुषमायामपि // ___ तत्पहपूर्वाद्रिसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः / . श्रीहेमसूरेश्व कुमारपालदेवस्य चेदं न्यगदचरित्रम् // सकविरिति न कीर्ति नार्थलाभं न पूजामहमभिलषमाणः प्रावृतं वक्तुमेतत् / किमुत कृतमुभाभ्यां दुष्करं दुःषमायां जिनमतमतुलं तत्कीर्तनापुण्यमिच्छुः // धर्मे निर्मलतामवाप्सुमतुलां श्रीहेमचन्द्रप्रभौ भक्तिं व्यजितमद्भुतां भणितिषु द्रष्टुं परामौचितीम् / श्रोतुं चित्रकथाश्चमत्कृतिकृतः काव्यं च लोकोत्तरं कर्तुं कामयसे यदि स्फुटगुणं तद्वन्थमेतं शृणु // प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी __ वाग्ग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् / यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः 'कवीन्द्र' इति च 'भातेति च व्याहरत् // पुत्रस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता मुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् / तं तद्वसताविदं किमपि यच्चायुक्तमुक्तं मया तद्युष्माभिरिहोच्यतामिति बुधा वः प्रावलिः प्रार्थये // हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् / / वर्द्धमान-गुणचन्द्रगणिभ्यां साकमाकलितशास्त्ररहस्सैः // यावन्निहिताखिलसन्तमसौ नभसि चकास्तो रविचन्द्रमसौ / तावत् हेम-कुमारचरित्रं साधुजनो वाचयतु पवित्रम् //

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242