Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith
View full book text
________________ कुमारपालदेवप्रबन्ध 112-19 मुक्तम् / 'त्वयां कारणं किमपि न पृष्टम् / / 'मया ज्ञातं यदुन्नतिम[स]हमानाः कथयन्ति' / इतः श्रीदेवाचार्याः पत्तनमायाताः / श्रीहेमाचार्यान्नमस्करणा[4] आगच्छतो दृष्ट्वा उक्तम् -'तपोधना! नृपगुरूणामयें उपवेशनमानयत' / श्रीहेमाचार्या विस्मिताः, यावद् वन्दन्ति तावदुक्तम्-'हे नृपगुरवः! इहाऽऽस्यताम् / हेमा० उक्तम् -'प्रभो! ममोपरि कथमप्रसादः 1 प्रभुभिरहं दर्शनविरुद्ध पथि संचरन् दृष्टः श्रुतो वा ? / 'कथयत, प्रतिष्ठालग्नं भवद्भिः निरूपितं न वा?' / 'निरूपितम्' / 'तत्र क्रूरकर्तरीयोगोऽस्ति / एतल्लग्नं पूर्वकृतानामपि प्रासादा-.. नामनर्थहेतुः' / 'भगवन् ! किं क्रियते ?' गुरुभिरुक्तम् -"स्तोकदोषं बहुगुणं कार्य कार्य विचक्षणैः" इति विचिन्त्य पदमी प्रासादा मूलतोऽप्यपाकृत्य नूतनास्तदा सर्वेऽपि प्रासादाः स्थिरं स्युः' / 'प्रभो! एतन्न युज्यते' / 'तर्हि भवितव्यतैव बलवती / भवतां कोऽपराधः'। 645. इत एकदा श्रीहेमाचार्याणां [शिष्यः] यशश्चन्द्रगणि[:] स्तम्भतीर्थे गतः / तत्र सुखासनारूढश्चतुष्पयं वक्रमवलोक्य पप्रच्छ -'कथमत्र वक्रम् 1" / 'अस्य जैनप्रासादस्य देवकुलिकाचतुष्कमिहास्ते तेन " कारणेन चतुष्पथं वक्रम्'। 'देवकुलिका निपात्य सरलीकृ(क्रियताम्' / तासु पात्यमानासु गोष्ठिकैः कलकल: कृतः / तथापि पातिता एव / तैर्गोष्ठिकैः श्रीदेवाचार्यभक्तैर्गुरवो विज्ञापिताः / तैस्तु हेमाचार्याणामुपालम्भो दत्तः / ते तु गणेयूँनमधिकं न मन्यन्ते / उक्तं-'प्रभो! राज्ञा 1440 प्रासादाः कारिताः / चत्वारो न्यूना ज्ञेया' / श्रीदेवाचार्येरुक्तम् तं किं पि कयं महिसासुरेण पुश्विं कयाइ दुच्चिन्न / तेण भवाणीभवणे अज्ज वि महिसा वहिज्जति // 55 // हेमा० रुक्तम्-'मृतानामुपरि शकटानि यान्तु' / इतः श्रीहेमाचार्याः पौषधागारे गताः / प्रतिक्रमणान्ते "नृपं प्राहुः- 'भवद्भिः श्रीदेवाचार्याना(णां) पौषधागारे गन्तव्यम् / किञ्चित् कुमुखिताः (?कुपिताः) सन्ति / नपस्खच्छरं भणित्वा न गतः।श्रीदेवाचायः शाकंभर्या उपरि विहारः कृतः। तत्र वीसलदेवनपतिना क्रतिसन्मानाः सन्ति / एकदा श्रीकुमारपालदेवेन प्रधानान् प्रेष्य श्रीपत्तने आकारिताः / देवकुलिकाचतुष्कव्यति-. [क] रे प्रासादचतुष्कं दत्तम् / एकः श्रीसुवर्णगिरिमण्डनः श्रीपार्श्वनाथस्य, द्वितीयस्तलहव्यां जावालिपुरीया, तृतीयो नङ्कले श्रीयुगादिदेवस्य, चतुर्थो गूदउजपुरे श्रीशान्तिनाथस्य / 646. एकदा नृपेण पृष्टाः-'एते प्रासादाः कियच्चिरं स्थास्यन्ति ?" / 'देव ! त्वज्जीवितावधिः' / 'कोऽनर्थकारी ? / 'त्वद्भातृपुत्रो अजयी'।'प्रभो! यद्येवं तर्हि हन्यते' / 'राजन् ! तिष्ठतु' / एष पर्यालोचः प्रभूणां शिष्येन(ण) पालचन्द्रेण श्रुतः / तस्याग्रे उक्तः / स नष्ट्वा गतः / / 647. इत एकदा राज्ञि पौषधागारनिविष्टे गणिना पटी एका वितत्य नृपाय दर्शिता / नृपेणोक्तम् -'कथमेषा पटी लाञ्छनाऽऽकुला दृश्यते' / 'देव! मट्ठरो रुधिरेण' / नृपः क्रुद्धः / 'स को येन मम गुरोरङ्गाद् रुधिरं कृष्टम् / / 'देव! ईदृशा उच्छृङ्खला द्विजा एव, अपरः कः' / कथकि(मि)ति पृष्ट-रोहेडकस्थाने देवं नन्तुं गताः / तत्रैकेन द्विजेन गवाक्ष्य(क्षारूढेन कक्करकः क्षिप्तः / शिरसि लमः / रुधिरं निःसृतम् / शिष्यैरप्युपेक्षितम् / मया संवृत्य मुक्ता कदाचित् ज्ञास्यते / एषा सा' / नृपः कुपितः सन् गणिं दलपतिं कृत्वा चन्द्रावती[श] धारावर्ष सह " प्रहित्य अश्वसहस्रः 12 समं प्राहिणोत् / धारावर्षस्तु टलितः-'द्विजानां सुता[ना]मुपरि किं गम्यते' / गणिना प्रामे वेष्टिते द्विजा 'वर्चसं कर्तुं नि[:]स्ताः / गणिनोक्तम् -'यथान्यायं कुरुत, तदा द्विजा न, अधुना द्विजाः'इत्यभिधाय पटी दर्शिता / 'तदा मया प्रतिज्ञातमासीत्, यद् भवतां रुधिरेण इमां रक्षयामि / इष्टदेवतां स्मरत' / वैरुक्तम्-'अधुना त्वमेवेष्टदेवता। यदु रोचते तद् विधीयताम्' / इतः कुण्डी समानीता / तत्र द्विजानामहुली

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242