Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith
View full book text
________________ 112-18 पतुरशीतिप्रवन्धान्तर्गत 643. कदाचित् कुमारपालनृपतिः सङ्घाधिपतीभूय तीर्थयात्रां चिकीर्षुमेहता महेन देवालयप्रस्थाने जाते देशान्तरायातयुगलिकया 'त्वां प्र[ति] डालदेशीयः कर्णनृपतिरुपैति' इति विज्ञप्तः / खेदतिलकितं ललाटं दधानो मधिवाग्भटेन सार्द्ध ससाध्वसं ध्वस्तसनाधिपत्यमनोरथः प्रभोरुपान्ते खं निनिन्द / अथ तस्मिन् नृपतेर्महाभये समुत्पबे किचिदवधार्य-'द्वादशे यामे भवतो निर्वृतिर्भविष्यति' इति आदिश्य विसृष्टो नृपः / किंकर्तव्यतामूढो यावदास्ते, / तावन्निश्चितवेलासमागतयुगलिकया- 'श्रीकर्णो दिवं गतः' इति विज्ञप्तः / नृपेण ताम्बूलमुत्सृजता 'कथम् ?' इति पृष्टौ तावूचतुः- 'कुम्भिकुम्भस्थलस्थः श्रीकर्णो निशि प्रयाणं कुर्वन् निद्रामुद्रितलोचनः कण्ठपीठप्रणयिना सुवर्णशृङ्खलेन प्रविष्टन्यग्रोधपादेन उल्लम्वितः पञ्चतामञ्चितवान् / तस्य संस्कारानन्तरमेव आवां प्रचलितो' - इति ताम्या विज्ञप्तः / तत्कालपौषधवश्मनि समागतो नृपः प्रशंसापरः, कथं कथमप्यपवार्य द्वासप्ततिमहासामन्तैः समं ससंघेन च प्रभुणा द्विधोपदिश्यमानवां धंधुकनगरे प्रभूणां जन्मभूमौ प्राप्तः / स्वयं कारितसप्तदशहस्तप्रमाणे . श्रीझोलिकाविहारे प्रभावनाविधित्सुर्जातिपिशुनानां द्विजानामुदितमुपसर्ग वीक्ष(क्ष्य), तान् निर्विषयताडितान् कुर्वन् , श्रीशत्रुञ्जयतीर्थमाराधयन् , 'दुक्खक्खओ कम्मक्खओ' इति प्रणिधानदण्डकं उच्चरन् , देवस्य पार्थे विविधप्रार्थनावसरे इकह फुल्लह माटि देइ जि सग्गह तणां सुह / एवड करइ कु साटि बपुरे भोलि म जिणवरह // 56 // // इति चारणमुच्चरन्तं निशम्य नवकृत्वः पठितेन नवसहस्रान् तस्मै नृपतिर्ददौ / तदनन्तरं उज्जयन्तसन्निधौ गते तस्मिन् अकस्मादेव पर्वतकम्पे संजायमाने श्रीहेमाचार्या नृपं प्राहुः-'इयं छत्रशिला युगपदागतयो[:] पुण्यवतोपरि पतिष्यति' इति वृद्धपरम्परा / तदावां पुण्यवन्तौ, यदि गीः सत्या भवति तदा लोकापवादः। ततो [प]तिरेव देवं नमस्करोतु न वय[मित्युक्ते नृपतिनोपरुध्य सङ्घन सह प्रभवः प्रहिताः / वयं छत्रशिलामार्ग परिहत्य जीर्णदुर्गे नवपद्याकरणाय वाग्भटदेव आदिष्टः / तत्पद्याकृते व्ययीकृतास्त्रिषष्टिलक्षाः // // इति तीर्थयात्राप्रबन्धः // 644. एकदा श्रीपत्तने द्वात्रिंशद्विहारकाणां प्रतिष्ठां महदुत्सवेन प्रारब्धां श्रुत्वा वटपत्र(द्र)पुरनिवासी वसाहकान्हाकः स्वयंकारितप्रासादबिम्बमादाय श्रीपत्तने प्रतिष्ठार्थमाययौ / श्री[]माचार्याः प्रतिष्ठार्थेऽभ्यर्थिताः / तैर्मानितम् / इतस्तस्मिन् दिने जनसम्म> जातः / रात्रौ घटी मण्डिता / इतो वसाहस्य भोगाघुपस्करो विस्मृतः / तेन त[माने]] गते असमये लग्नघटी वादिता / असौ समागतः। मध्ये प्रवेशं अलब्ध्वा " लमघटीं श्रुत्वा विषि(प)ण्णः / प्रतिष्ठापश्चाजनो विरलो जातः / कान्हाकोऽप्यन्तः प्रविश्य गुरूणां चरणयोर्लगित्वा बादं रुरोद-मदीयं बिम्बं प्रभो ! स्थितम्' / गुरुभिरूर्द्धमवलोकितम् / लमं तदा वहमानं विलोक्योक्तम्-'भो ! त्वं पुण्यवान् , लममधुनाऽस्ति / परिच्छदं कुरु बिम्बप्रतिष्ठायाम् / स न मन्यते / गुरुभिः प्रतिष्ठां विधाय उक्तम्-'यदि न मन्यसे तथा(दा) देवं पृच्छ, एतत् तथ्यं न वा ? / बिम्बेनोक्तम् -'भो। तव बिम्ब वर्षशतत्रयायुः / एतानि वर्षत्रयायूंषि भविष्यन्ति' / - इतः कश्चिद् व्यवहारी स्तम्भतीर्थ वाणिज्याय गतः / तत्र तेन श्रीदेवाचार्या नमस्कृताः / पृष्टम् - 'किमद्य कल्ये नृपः पुण्यकर्म तनोति ? / 'द्वात्रिंशद् विहाराणां प्रतिष्ठा जाता / तस्य उछ(त्स)वस्य किं कर्ण(वर्ण्य)ते ? / 'लग्नं वेत्सि ?', 'अमुकमनुमानम्' / 'इदं लग्नं हेमाचार्यनिरूपितं न वा 1 यदि निरूपितं तदा म[हत् [९]णं जातम्' / स पुनः पत्तनमाययौ / हेमाचार्यैः पृष्टम् -'श्रीदेवसूरयो नमस्कृताः१ / स्वरूप

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242