Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith

View full book text
Previous | Next

Page 189
________________ चतुरशीतिप्रवन्यान्तर्गत चारणं विधाय सा रुधिरेण भृता / तत्र पटी रजिता / द्विजा उक्ता-'गेहान् त्यक्त्वा यात' / तेषु बहिःस्थितेनु प्राकारं खण्डशः कृत्वा गेहांध इङ्गालान् वाप्य पुनः पत्तने समायातः / इतो नृपतिना उक्तम्-'क्षेमेष समायाताः१ / 'देव ! धारावर्षस्त्वदाज्ञामतिक्रम्य स्थितः' / नृपेण देशत्यागो दवः / वर्षत्रयेण पत्र 500 दत्वा पुनरायातः॥ // इति रोहेडाद्विजानां प्रबन्धः॥ 648: एकदा जाल्योधरे जिनरथयात्रायां जायमानायां द्विजैः कन्दलं कृत्वा स्थविम्ब भग्नम् / श्रावक हिजाः कुट्टिताः / यावत् ते पत्तने रावायां यान्ति, तावत् पूर्वमेव श्रावकैः प्रभवो ज्ञापिताः / इतः प्रतिक्रमणप्रान्ते गुरुभिर्नुपाय संभालितम् / प्रातर्द्विजैरायातैर्नृपेनो(गो)क्तम् -'यूयं म्लेच्छा धर्मस्थानभङ्गात्, अतो नगर त्यक्त्वा देशत्यागं यात' / तैः प्रभवो विज्ञप्ताः-'परं क्व यामः 1' / ततो गुरुभिरुक्तम् -'नरकं (नगरं ?) त्यक्त्वा " अन्यसीमायां तिष्ठत / पुरमुद्वसं कृतम् // - 149. अथ गुरवः पूर्णायुषश्चतुरशीतिवर्षायुः प्रतिपाल्य दिन 3 अनशनं दाय, नृपेऽसमाधिपरे आहुः-मा विषीद, भवतामपि षण्मासान्ते मृत्युः' / त[त] समाधिना रामचन्द्रं खपदे संस्थाप्य पञ्चपरमेष्ठिस्मृतिपरास्त्रिदिवं जग्मुः / तदनु महोत्सवपुरस्सरं संस्कारे जाते नृपे[ण] शिखां मत्वा भस्मकणः खशिरसि क्षिप्तः / लघुजनेन को उत्पाटिते गर्ता पतिता / सा हेमषड इति प्रसिद्धा जाता // // इति प्रभूणामवसानप्रबन्धः॥ . 650. श्रीहेमचन्द्रसूरयः श्रीकुमारपालदेवस्य पूर्वभवं कथयामासुः / महाराजश्रीकुमारपालदेवस...... स्थानान्तरं इति व्यतिकरान्महाराजं मुत्कलाप्य सीधु(द)पुरे यात्वा नदीसमीपे भव्यरमणप्रदेशे त्रिभुवनस्वामिनीविधामाराधयितुं प्रवृत्ताः / तृतीयदिवसप्रान्तेऽर्द्धरात्रौ देवी प्रकटीवभूव / तयाऽभिप्राये पृष्टे भणितम् - 'परमेश्वरि ! श्रीकुमारपालदेवस्य पूर्वभवं कथय / सा प्राह-'मालवकसन्धौ पर्वतमध्ये जयत(न्त)नामा भिल्लो वसति / * अन्यदा वाणिज्यकारकजेसलनामा बहीं बलीव वलीं गृहीत्वा जयन्तभिलपल्याः समीपे जलाऽऽश्रये स्थितवान् / चरेण दृष्ट्वा जयन्तस्य वृत्तान्तः कथितः / जयन्तेन सार्थों गृहीतः / केपि कापि नंष्ट्वा सार्थिका जग्मुः / जेसल वाणिज्यकारकेण मालविकराजो द्वारं षद्धम् / राज्ञाऽऽकार्य सन्मानितः / राज्ञा जगदे-'यत् स्वदीयं जगाम तद गृहाण मम पार्थात / अहमात्मीयं तस्य पार्थाद ग्रहीष्यामि / त्वया मम च पार्थे स्थेयम्। 'आदेशः प्रमाण'मिति भणित्वा स्थितः। प्रस्तावे राजा स सेनानी कृतः / जेसलवाणिज्यकारकः कटकं गृहीत्वा पल्ली मक्त्वा सर्व विनाशयामास / जयन्तः पलायांचके / तेन कोपाजयन्तपुत्रो बालको मारितः। तत उज्जयिन्या गतस्य राजप्रसादो बभूव / जयन्तः पल्लीपतिरेकाकी प्रान्त्वा गङ्गायास्तटे गतः सन् चौरिकया बालवृद्धान् मारयति / / ऋरचित्तो बभूव / कदाचित् श्रीयशोभद्रसूरयो ग्र(ग)हे चटिताः / अहं मारयिष्यामीति भणितम् / भणित पूज्यैः-'त्वया बहवो लोका विनाशिताः / अग्रेऽपि बहुपातकमर्जितम्' - इत्यादि[वचनेन] श्रीयशोभद्रसूरिभिर्बोषितः / जीववधे नियमं जग्राह / गङ्गातट परित्यज्य तिलङ्गदेशे अणघउरनगरे ईश्वरव्यवहारिणो गृहे थावरी- नामी कर्मकरी, तस्स(स्था) गृहे स्थितः / तया व्यवहारिणा च पुत्रबुद्ध्या गणितः / तत्रस्थो जीवदयां पालयति / भन्यदा श्रीयशोभद्रसूरयोऽनधपुरे समाजग्मुः / मम गुरवः समागताः / मम भाग्यं जागर्ति / सदा गुरुणां परें उपविष्टस्तिष्ठति / अन्यदा ईश्वरव्यवहारिणा पृष्टः-'अधकल्ये क यासि, गृहे न दृश्यसे' / तेनोक्तम्-'गुरुणां

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242