Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith
View full book text
________________ 92 कुमारपालदेवचरितम् / पूजामकरोत् / ततोऽहो ! यद्येते भोगभाजोऽपि व्यवहारिणोऽद्य तपः कुर्वन्ति, ततः पुण्यमद्यतनं दिनमित्यहमपि विशेषतस्तपः करोमीति गुरूणां मुखेनोपवासमकरोत् / प्रभाते विशुद्धश्रद्धया साधूनां दानमदात् / ततः स्खं कृतार्य मन्यमानः कृतपुण्यः सन् मृत्वा त्वं त्रिभुवनपालपुत्रो जातः / ओढरश्रावकस्तु उदयनमन्त्री, यशोभद्र सूरयस्तु वयम् / त्वं पुनरितो निजायुःप्रान्ते महर्द्धिकव्यन्तरदेवत्वमधिगम्य ततश्युत्वा चात्रैव भरतक्षेत्रे * भद्रिलपुरे शतानन्दनृप-धारिण्योः पुत्रः पैत्रिकराज्यमवाप्य भाविश्रीपद्मनाभजिनेन्द्रधर्मदेशनां श्रुत्वा प्रतिबुद्धः परिहत्य राज्यलक्ष्मी प्रव्रज्यैकादशगणधरो भूत्वा केवलज्ञानमासाद्य मोक्षं यास्यसि / ' एतन्निशम्य राजा विस्मितः प्राह-'भगवन् ! कोऽत्र प्रत्ययः 1 / ' श्रीगुरुभिरूचे-राजन् ! अद्यापि, ओढरवंशीयाः सन्ति उल(र)गलपुरे तेषां गृहे जीर्णदासी पूर्ववृत्तान्तान् जानाति / सा गत्वा पृष्टा सती सर्व कथयिष्यति / ततो सज्ञा निजपुरुषैस्तत्सर्व स्वरूपं ज्ञातं दास्या मुखेन जयताभवसत्कम् ; ज्ञातं च जयसिंहदेवेन सह वैरकारणम् / चिन्तितं "च निजमनसि 'अहो ! वैरकारणम् , दारुणः संसार आत्मन् ! ततो राजा संवेग-निर्वेदाभ्यामालिङ्गितः / सञ्जातश्रीजिनधर्मस्थैर्यः श्रीहेमसूरीणां 'कलिकालसर्वज्ञ'पदमदात् / 670. कस्मिन्नप्यवसरेऽणहिल्लपुरे श्रीकुमारपालनामा नरेश्वरो वाहकेल्यां व्रजन् सौन्दर्यवर्यनिर्जितसुरसुन्दरीमबालेन्दुवदनां कामप्यबलां वालिकामालोक्य तद्रूपापहृतहृदयः संनिहितप्रसादचित्तकं प्रति केयमित्यादिशंस्तेनेति विज्ञपयां चके-'अपारश्रुतकूपारदृश्वतया सञ्जात 'कलिकालसर्वज्ञ' प्रसिद्धीदशभिन्नतपःसमाराधनवशबन्दीकृताष्टमहा. सिद्धेनिःशेषभूपालमौलिचुम्बितपादपीठस्य आयुष्मतः श्रीहेमचन्द्रमहर्षे सश्रमनिवासिनी अहिंसानाम्नी कनीयमिति निशम्य सद्यः कदाचित्तान् महपीन् हर्पभाक् सभक्तिकं सौधमाकार्य तद्वृत्तान्तं पृच्छंस्तैरूचे-'त्रिजगदेकसार्वभौमस्य श्रीमदहद्धर्मस्य अनुकम्पानाम पत्नी'; 'कथं धर्मस्य राज्यत्वम् ?' यतः४६५. जिनमतनगरेऽस्मिन् मोहमत्तारिजेता, जयति जनितधामा धर्मनामा नरेन्द्रः।। नियतमपरिभूयं यस्य राज्यं प्रभूतं विलसति नयपूतं तत्त्वसप्ताङ्गमेतत् // . अर्द्धासनोपविष्टाऽनुकम्पानाम महादेवी / तस्याः कुक्षिसरसिराजहंसी निःसीमसौन्दर्याऽहिंसाभिधा / यस्मिन् लग्ने सुताऽजनि, तलग्नं ग्रहबलं तत्पित्रा सर्वविदा एवमादिष्टम्-यदियमतीव पुण्यवती दुहिता / पुत्रजन्मोत्सवादप्यस्या जन्म श्लाघ्यम् / अतः क्रमेण वर्द्धमाना कन्या साऽनुरूपवराप्राप्त्या वृद्धकुमारी भूत्वाऽनुरूपेण केनापि महीमहीन्द्रेण सोपरोधमूढा, तं च खं च जनकं च परामुन्नतेः कोटि नेष्यति इति तद्वाक्यपर्यन्ते तदर्थिनाऽनुकूल्य तस्याः सविधे सद्बुद्धिनाम्नी दूतीं नृपः प्राहिणोत् / सा तां सप्रश्रयं प्रणिपत्य 'स्वामिनी राजकन्ये ! धन्यतपासि, यत्त्वामष्टादशदेशसम्राट् समस्तसामन्तसीमन्तकर्मणि मयूखमालालङ्कृतचरणकमलयुगलश्चौलुक्यचक्रवर्ती त्वामुद्वोढुमभिलपती'ति तद्वचसा मुखमोटनया विनयं नाटयन्ती सोपहासं सैवं प्राह४६६. निष्किञ्चनेन दयितेन विवाहितेन, यद्योषितां सुखपदं न तदीश्वरेण / भागीरथीं वहति यां शिरसा गिरीशो, लक्ष्मीपतिः स्पृशति नैव पुनः कदापि // अलं नरकान्तप्राज्यसाम्राज्यप्राप्तिप्रलोभनवार्तया। 4467. सत्यवाक्, परलक्ष्मीमुक्, सर्वभूताभयप्रदः। सदा खदारतुष्टश्च सन्तुष्टो मे पतिर्भवेत् // इति तस्या दुःश्रवं प्रतिश्रवमाकर्ण्य सा विफलवैदग्ध्यमानिनी खं पदमुपगता स्वामिनं सर्वथा निराशमकरोत् / तदनु तं नृपं तद्वियोगामिमग्नमाकलय्य श्रीहेमसूरिस्तमिति प्रतिबोधितवान्-'यः कन्याया इतरलोके दुष्करः सङ्गरः स तवाप्युभयलोकहितस्तदनुकूलताहेतुश्च / अतस्तमपि निर्मापय खनिस्सीमोन्नतये। . .

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242