________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रेयांसः २, यशखान् [ यशस्वी ] ३, १ ॥ भगवतो माता वासिष्ठगोत्रीया, तस्या अपि त्रीणि नामानि - त्रिशला १, विदेहदिन्ना २, प्रीतिकारिणी ३, च २ ॥ पुनः भगवतः पितृव्यः सुपार्श्वः ३, ज्येष्ठो भ्राता नंदि वर्धनः ४ ॥ भगवतो भगिनी सुदर्शना जमालेः माता ५ ॥ भगवतो भार्या यशोदा कौण्डिन्यगोत्रीया ६ ।। भगवतः पुत्री काश्यपगोत्रीया, तस्याः नामद्वयम् - अनुञ्जा १, प्रियदर्शना २ च सा जमालेः दत्ता ७ ॥ भगवतो दौहित्री कौशिक गोत्रीया, तस्याः नामद्वयम् - शेषवती १, यशोवती २, च ८ ॥
अथ भगवान् कीदृशो जातः ?, तत्राह
समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे आलीणे भद्दए विणीए नाए नायपुत्ते नायकुलचंदे विदेहे विदेहदिने विदेहजचे विदेहसूमाले तीसं वासाई विदेहंसि कहु अम्मापऊहिं देवत्तएहिं गुरुमहत्तरएहिं अब्भणुन्नाए समत्तपन्ने ॥
व्याख्या–“समणे भगवं” श्रमणो भगवान् महावीरः, दक्षः कलासु, दक्षा प्रतिज्ञा तन्निर्वाहकतया पट्टी प्रतिज्ञा यस्य सः । प्रतिरूपः-तगुणसङ्क्रमणे दर्पणत्वात्, आलीनः सर्वगुणैराश्लिष्टो गुप्तेन्द्रियो वा । भद्रकः सरल: भद्रो वृषभः तद्वत् गच्छतीति भद्रगो भद्रदो वा सर्वकल्याणदायित्यात्, विनीतो विनयवान् सुशिक्षितो वा जितेन्द्रियो वा । बिनयो हि इन्द्रियजयः तत्सहितञ्च शास्त्रं पठितुं अर्हति तस्य च पाठकाः प्रसीदन्ति,
For Private and Personal Use Only
XXX«*•*•*•*•.