Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चण्डप्रद्योतनराशेजाय भोजनं दातव्यं ।" राजा तु जिनप्रतिमापूजादि धर्मकृत्यं कर्तु लग्नः। ततः सूपकारेण विज्ञप्तः चण्डप्रद्योतन:-“का रुचिः अद्य भवतां ?। राज्ञा प्रोक्तं-“या उदायनराजस्य ।" सूपकारेण प्रोक्तं["अद्य तेषां उपवासः, श्रीपर्युषणापर्वत्वात् ते न भोश्यन्ते ।" ततः चण्डप्रद्योतनेन विचारितं-"अद्य पृथक
रसवतीकरणे विषमदानं भावि ।” मरणभीत्या कथितं-"वयं अपि अद्य उपवास करिष्यामः, वयमपि X|श्रीउदायनराजस्य साधर्मिकाः स्मः। एतत् वचनं राज्ञा सूपकारमुखात् श्रुत्या-"अहो! धूर्तसाधर्मिकोऽप्ययं
साधर्मिकः । साधर्मिके च बद्धे न मम प्रतिक्रमणं शुध्यति" इति विचार्य चण्डप्रद्योतनं आहूय निगडादीनि बन्धनानि दूरीकृत्य ललाटे वर्णपट्टे चन्धयित्वा मुक्तश्चण्डप्रयोतनः क्षामितश्च, सत्कृत्य मुक्तोऽवन्तीदेशे । उदायनराजवत् अन्येनापि क्षामणा कर्तव्या, क्रोधश्च मोच्यो यथा आराधकत्वं स्यात् ।।
नथा अपराधं कृत्या तस्मिन् अक्षामिते अनर्थपरम्परा स्यात् तत्रार्थे दृष्टान्तः, तथाहिएकस्मिन् ग्रामे कुम्भकारो भाण्डैः शकटं भृत्वा नगरमध्ये विक्रेतुं आगच्छति, ततः एकं वृषभं हर्तु कृतमनस्कैः कश्चिद् ग्रामीणपुरुषः भणितं-"अहो ! “एकबइल्ला गड्डी" एकेन बलीवर्देन गन्त्री याति ।” लोकः अपि श्रुतं । कुम्भकारेण अपि विचारित-"नूनं एते दुष्टा मम एक वृषभं हरिष्यन्ति, एते पश्यतोहराः, यतः सन्तमपि * मम वृषभं असन्तं कुर्वन्ति।" ततः कुम्भकारो यावत् भाण्डविक्रयेण व्यग्रचित्तो जातः, तावत्तः वृषभो इतः स्वस्थचित्तः सन् वृषभं अदृष्ट्वा 'घुम्बापातं' चक्रे-"अहो! मम द्वितीयो वृषभः केनापि हृतः।" लोका अपि
For Private and Personal Use Only

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628