Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 582
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Tiभोजनवेलायां अतिक्रमे प्रभावत्या आगत्य प्रोक्तं-“देवाधिदेवोऽर्हन् वीतराग एव" इति । तत उद्घाटिता पेटी देवतावसरे स्थापिता । प्रभावती प्राधिका तां सदैव पूजयति । एकदा प्रभावत्या पूजां कुर्चत्या श्वेतवस्त्राणि याचितानि, दास्या दत्तानि, परं प्रभावत्या दृष्टिभ्रमेण रक्तानि ज्ञात्वा दासी तर्जिता। क्षणान्तरे श्वेतान्येव दृष्टानि, ज्ञातं ममायुः षण्मासमध्ये, ततो दीक्षार्थ राजा प्रार्थितः। राज्ञा प्रोक्तं-"त्वं देवो भविष्यसि, मम विषमवेलायां सान्निध्यं करोषि, तदा आदेशं ददामि ।" ततोऽङ्गीकृते, आदेशो दत्तः, दीक्षा गृहीता, देवो जातः । राजा योगिवृन्दमारणेन साधुवृन्दरक्षणेन आवकः कृतः । अथ तां प्रतिमां दीक्षाग्रहणमोक्तवचनानुरोधेन देवदत्ता दासी पूजयति । एकदा गन्धारः श्रावकः प्रतिग्राम प्रतिपुरं देवान् वन्दमानः श्रीदेवाधिदेवप्रतिमां देवतादत्तां वन्दितुं वीतभये आजगाम । पूजिता प्रतिमा, परं तस्य एकदा ज्वरश्चटितो, दास्या सारशुद्धिकरणेन सज्जीकृतः, जातो नीरोगः । तेन गच्छता उपकारिणीति दास्यै गुटिकाद्वयं सप्रभाव दत्तं, माहात्म्यमपि कथितं-"अनया भक्षितया दिव्यरूपं भावि, अनया भक्षितया तव अभीष्टः स त्वां आदरिष्यति ।” एवं कथयित्वा तस्मिन् गते एका भक्षयित्वा दिव्यरूपं कृतं । नाना च वर्णगुलिका जाता। द्वितीय|भक्षणे लोकमुखात् स्त्रीलोलुपं चण्डप्रद्योतनं स्वरुचितं हृदि दध्यो-“स मम वरो भवतु" इति । ततो गुटिकाधिष्ठितदेवतया उज्जयिन्यां गत्वा चण्डप्रद्योतनाय दासीखरूपं सर्व ज्ञापितं । ततो राजा अनलगिरिगजारूदो वीतभये समागत्य रात्री स्वर्णगुलिकां आकारयति स । दास्या च प्रोक्तं-"अहं प्रतिमा विना न XXXXXXXXXXXX For Private and Personal Use Only

Loading...

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628