________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Tiभोजनवेलायां अतिक्रमे प्रभावत्या आगत्य प्रोक्तं-“देवाधिदेवोऽर्हन् वीतराग एव" इति । तत उद्घाटिता पेटी
देवतावसरे स्थापिता । प्रभावती प्राधिका तां सदैव पूजयति । एकदा प्रभावत्या पूजां कुर्चत्या श्वेतवस्त्राणि याचितानि, दास्या दत्तानि, परं प्रभावत्या दृष्टिभ्रमेण रक्तानि ज्ञात्वा दासी तर्जिता। क्षणान्तरे श्वेतान्येव दृष्टानि, ज्ञातं ममायुः षण्मासमध्ये, ततो दीक्षार्थ राजा प्रार्थितः। राज्ञा प्रोक्तं-"त्वं देवो भविष्यसि, मम विषमवेलायां सान्निध्यं करोषि, तदा आदेशं ददामि ।" ततोऽङ्गीकृते, आदेशो दत्तः, दीक्षा गृहीता, देवो जातः । राजा योगिवृन्दमारणेन साधुवृन्दरक्षणेन आवकः कृतः । अथ तां प्रतिमां दीक्षाग्रहणमोक्तवचनानुरोधेन देवदत्ता दासी पूजयति । एकदा गन्धारः श्रावकः प्रतिग्राम प्रतिपुरं देवान् वन्दमानः श्रीदेवाधिदेवप्रतिमां देवतादत्तां वन्दितुं वीतभये आजगाम । पूजिता प्रतिमा, परं तस्य एकदा ज्वरश्चटितो, दास्या सारशुद्धिकरणेन सज्जीकृतः, जातो नीरोगः । तेन गच्छता उपकारिणीति दास्यै गुटिकाद्वयं सप्रभाव दत्तं, माहात्म्यमपि कथितं-"अनया भक्षितया दिव्यरूपं भावि, अनया भक्षितया तव अभीष्टः स त्वां आदरिष्यति ।” एवं कथयित्वा तस्मिन् गते एका भक्षयित्वा दिव्यरूपं कृतं । नाना च वर्णगुलिका जाता। द्वितीय|भक्षणे लोकमुखात् स्त्रीलोलुपं चण्डप्रद्योतनं स्वरुचितं हृदि दध्यो-“स मम वरो भवतु" इति । ततो गुटिकाधिष्ठितदेवतया उज्जयिन्यां गत्वा चण्डप्रद्योतनाय दासीखरूपं सर्व ज्ञापितं । ततो राजा अनलगिरिगजारूदो वीतभये समागत्य रात्री स्वर्णगुलिकां आकारयति स । दास्या च प्रोक्तं-"अहं प्रतिमा विना न
XXXXXXXXXXXX
For Private and Personal Use Only