________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०९
॥२७२॥
सह लात्वाप्राप्यते । चिन्ताऽपि । उदायकामुकुटबद्ध
एष्यामि।" तन्त्र स्थाने च तत्सगिव संस्थाप्य ततस्तां अलात्वा परावृत्य उज्जयिन्यां गत्वा नवीनप्रतिमां * चण्डलात्वा पुनः वीतभये गत्वा प्रतिमासहितां वर्णगुलिकां लात्वा प्रतिमास्थाने नवीनप्रतिमा स्थापयित्वा गतप्रद्योतनउज्जयिन्यां चण्डप्रद्योतनो राजा । ततः प्रभाते खकीयहस्तिनां त्रासात् मदगलनाच अनलगिरिसमारूढचण्ड- कथानक प्रद्योतनागमनं, प्रतिमापुष्पमालाम्लानतः, प्रतिमासहितदासीहरणं च ज्ञात्वा जातक्रोधो दशमुकुटबद्धराजाभिः सह लात्वा उज्जयिन्या अभिमुखं चचाल । उदायनो राजा आगतो जेसलमेरसमासन्नब्रह्मसरःस्थाने परं तत्र पानीयं न प्राप्यते । चिन्तातुरेण राज्ञा प्रभावती स्मृता, तया तत्र अक्षयं पानीयं कृतं, अद्यापि तत्र तथैव अस्ति १ एवं पुष्करस्थानेऽपि । उदायनसैन्यमागत्य उज्जयिनीसीनि पतितं । मार्गिता प्रतिमा, परं न ददाति स तां । ततः चण्डप्रद्योतनोऽपि चतुर्दशमुकुटबद्धराजपरिवृतः सर्वसैन्यं लात्वा आगत्य संमुखं ४ स्थितः । अनलगिरिहस्तिनं बिना युद्धं स्थापितं । कृते युद्धे भग्नश्चण्डप्रद्योतनः, ततो भ्रष्टप्रतिज्ञोऽनलगिरिहस्तिनं आरुह्य पुनः युध्यति स्म । तत उदायनराजेन पदातिना सता अनलगिरि अधो गत्वा बाणैः विध्यते स्म । अनलगिरिणा उपरिष्टात् अधः क्षिप्तः, ततो जीवन बद्धो निगडादिभिः ललाटे अक्षराणि लिखितानि"मम दासीपतिः अयं” इति, दासी नष्टा । प्रतिमाग्रहणे देववाणी जाता-"मां अत्रैव रक्ष, मा वीतभये नय, ॥२७२॥ तत्र धूलिकोट्टो भविष्यति। ततो राज्ञा प्रतिमां तत्रैव मुक्त्वा, खयं तु चण्डप्रद्योतनं लात्वा चलितः, मार्गे श्रीपर्युषणापर्व समागतं । राजा तत्र तद्दिने स्थित्वा उपवासं चके । सूपकारस्य च प्रोक्तं-"यत् रोचते तत्
For Private and Personal Use Only