________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चण्ड
कल्पसूत्र कल्पलता व्या०९
M
प्रद्योतनकथानक
॥२७॥
प्रहासाध्यानं कुर्वन् अज्ञानकष्टात् तत्पतिर्देवस्तत्रोत्पन्नः । ताभ्यां सह खेप्सितान् भोगान् भुञानः तिष्ठति । अथ कदाचित् नन्दीश्वरद्वीपे देवयात्रार्थ इन्द्राश्चतुर्विधदेवनिकायसहिताश्चलिताः। इन्द्रादेशेन हासाप्रहासा अपि तयोः यः पतिः स्यात् तस्य अधिकारोऽस्ति, इन्द्रादिदेवानां अग्रे मृदङ्गं वादयन् निःसरति, तेन ताभ्यां तस्य गले मृदङ्गो निक्षिप्तः। प्रोक्तं च-"अयं वादनीयः। ततस्तेन गलात् उत्तार्य दूरे निक्षिप्त:-"न अहं वादयिष्यामि", मृदङ्गश्च पुनःपुनर्गले एव आगत्य पतति। ततः ताभ्यां प्रोक्तं-"अस्मत्पतेः अधिकारोऽस्ति, गले पतितो मृदङ्गो वादित (वादयितव्य) एच, छुटिः न अन्यथा, हासा प्रहासा च "रामादल गलइ पज्या वजाड्या छूटी जई" इति लोकवाक्यं च जातं । ततो विद्युन्माली हासाग्रहासासहितो मृदङ्गं वादयन् मार्गे गच्छन् महर्द्धिकसुरान् दृष्ट्वा अल्पर्द्धिकमात्मानं निन्दन् नागिलजीवेन अच्युत १२ देवलोकोत्पन्नेन देवेन प्रोक्तं-“भो ! मां जानासि ?"* तत उपयोगदानेन ज्ञातं प्रोक्तं च-"हा मित्र नागिल ! मया त्वया वारितेनापि तुच्छभोगकृते मनुष्यजन्म हारितं, येन ईदृशी अवस्था प्राप्तः । अथ किं करोमि।" नागिलदेवेन प्रोनं-"भो! गोशीर्षचन्दनमयीं श्रीमहावीरदेवप्रतिमां कृत्वा पूजय, यथा बोधिवीजप्राप्तिर्भवेत्।" तेन तथैव कृत्वा कियन्तं कालं प्रतिमां पूजिता। पूजयित्वा ततः आयुः क्षणे [ये] प्रतिमागी पेटी कृत्वा पोतवणिजानां दत्त्वा प्रोक्तं-"इयं देवाधिदेवप्रतिमा वीतभयपत्तने गत्वा श्रीउदायनस्य राज्ञो देया।” ततः तैः सा पेटी आनीय सभायां राज्ञोऽग्रे मुक्त्वा कथितं च"देवाधिदेवप्रतिमाऽस्ति,” अन्यैः ब्रह्म-विष्णु-महेश्वराणां नामग्राहं उद्घाटिता, परं नोद्घटति । ततो राज्ञो *
-X-K9KKRKOKSATOKRAKOXXCK
॥२७१॥
For Private and Personal Use Only