Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 627
________________ Shri Mahavir Jain Ath e ndra www.kobatirth.org Acharya Shri arsuri Gyanmandit असंखनिगोअओ हबइ गोलो। इकिकम्मि निगोए, अर्णतजीवा मुणेयचा ॥१॥" इत्यादिसूक्ष्मबिचारगहनं श्रुत्वा इन्दो हर्ष प्राप्य * हस्तं दर्शितवान्-“हे भगवन् ! ममाऽऽयुः कियत् अस्ति ! । स्तोक स्यात् तदा मरणं साधयामि।" ततो गुरुभिः विलोकित-वर्षशतात् सहस्राल्लक्षात् कोटितोऽपि अधिक । तत्तः सागरोपमस्वरूपं दृष्ट्वा रक्तं-"हे इन्द्र! धर्मलामोऽस्तु ।" ततः इन्द्रः प्रकटीभूय दशदिशः उद्योतयन् वन्दित्वा अस्तवीत्-"हे पूज्य ! सीमंघरवामिना त्वं निगोदविचारपारगः कथितः, स प्रत्यक्ष दृष्टः" इत्युक्त्वा गच्छन् गुरुणा उक्त:-"गोचरीगताः शिष्या आगच्छन्ति, तावत् तिष्ठ, तेऽपि त्वां सहर्ष पश्यन्ति ।" इन्द्रेणोक्त-"मद्रुपमोहिता मा निदानं करिष्यन्ति ।" उपाश्रयद्वारं परावृत्य देवलोकं गतः। शिष्या आगताः द्वारं अपश्यन्तः शब्दं कुर्वन्तो नव्यद्वारेण गुरुणा प्रवेशिताः । शिष्यैः विज्ञप्त-"कथं एतत् ?" गुरुमिः सर्वे | इन्द्रस्वरूपं निवेदितं । ततः श्रीकालिकाचार्यः चिरं निर्मलं चारित्रं प्रतिपाल्य प्रान्ते अनशनं विवाय समाधिना देवलोकं प्राप्तः । ततः श्रीकालिकाचार्याः महाप्रभाविकाः स्थविरा बभूवुः । तेषां सम्बन्धः उक्तः । अथ प्रभाते साधुसामाचारी वक्ष्यते-सा वर्तमानयोगेन एवं-एके दानं ददति, एके शीलं पालयन्ति, एके तपः तपन्ति, एके भावनां भावयन्ति, स श्रीविधिचैत्यालयपूज्यमानश्रीशान्तिनाथशासनाधीश्वरश्रीवर्धमानतत्पट्टानुकमेण श्रीसुधर्मखामी तावत् यावत् युगप्रधानश्रीजिनचन्द्रमरिश्रीजिनसिंहसूरीणां प्रसादः, तेषां आज्ञया च श्रीसङ्घः प्रवर्ततां ॥ श्रीमद्विक्रमसंवति, रस-र्तु-शृङ्गार-संख्यके सहसि । श्रीवीरमपुरनगरे, राउलनृपत्तेजसी राज्ये ॥१॥ श्रीबृहखरतरगच्छे, युगप्रधानसूरयः । जिनचन्द्रा जिनसिंहाच, विजयन्ते गणाधिपाः ॥२॥ वच्छिष्यः सकलचन्द्रा, शिष्यः समयसुन्दरः । कथा कालिकसूरीणां चक्रे घालावरोधिकां ॥३॥ (ग्रंथा-४४१) ॥ इति कालिकाचार्यकथा समाप्ता ।। 66. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 625 626 627 628