Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 589
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रोधपिण्ड कल्पसूत्र कल्पलता व्या०९ ग्रहणे क्षपकदृष्टान्त: ||२७५॥ ब्राह्मणानां घृतपूरा दीयन्ते, साधुः तत्र अनाद्रियमानः चिरं स्थितः, परं न कोऽपि साधवेदात्। ततो रुष्टः साधुः 'द्वितीयमृतकसङ्खयां दास्यते' इत्युक्त्वा गतः। “नाऽन्यथा ऋषिभाषितं” इति हेतोः द्वितीयो मृतः तस्य सङ्खयां अपि गतः, परं न किमपि दत्तं। ततोऽतिकोपेन पुनः 'तृतीयमृतकसङ्खयां दास्यती'ति उक्त्वा गतः, तृतीयोऽपि मृतः पुनः साधुः गतः, परं न किमपि दत्तं, ततः अतिचण्डकोपेन पुनः अन्यमृतकसङ्खड्यां दास्यतीति वदन् केनापि स्थविरेण द्वारपालेन श्रुतः। ततः तेन स्वामिनः प्रोक्तं-"भो! अयं साधुः घृतपूरदानेन सुप्रसन्नः कार्यः, नो चेत् अन्येऽपि मरिष्यन्ति" इति । ततो गृहखामिना आकार्य घृतपूरैः साधुः प्रतिलाभितः। एवं यथा अनेन साधुना क्रोधेन घृतपूरा गृहीताः तथा अन्यैः न ग्राह्याः॥१॥ | पुनः माने सेवइया साधुः, तथाहि-कोशलादेशे गिरिपुष्पकं नाम नगरं, तत्र “सेवइया"पर्वणि तरुणश्रमणानां एकेन साधुना प्रोक्तं-"भो! अद्य भिक्षावेलायां सर्वैः अपि सेवइयाभक्तं प्रचुरं लब्धं, तत्र का लब्धिः?, कथं अद्य “सेवइयापर्व" क्षणो वर्तते? परं स लब्धिपात्रं यः प्रभाते घृतखण्डसहित सेवइयाभक्तं आनयति साधूनां च प्रतिलाभयति।" तदा एकेन चेल्लकेन अभिमानेन "अहं आनयिष्यामि' इति प्रतिज्ञां कृत्वा द्वितीयदिने बृहत्तराणि प्रभूतानि पात्रकाणि लात्वा गतः इभ्यगृहे, दृष्टाश्च तत्र तास्तादृशा, 'भाषिता-गृहस्वामिनी देहि में तया लोभिन्या बाहं हकयित्वा निष्कासितो गृहात् । तेन चेल्लकेन अभिमानं कृत्वा प्रोक्तं-"पश्य त्वं, मया एता अवश्यं ग्रहीतव्या येन केन प्रकारेण ।” तयाऽपि मोक्तं-"यदि त्वं एता गृह्णासि तदा मम For Private and Personal Use Only

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628