________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोधपिण्ड
कल्पसूत्र कल्पलता व्या०९
ग्रहणे
क्षपकदृष्टान्त:
||२७५॥
ब्राह्मणानां घृतपूरा दीयन्ते, साधुः तत्र अनाद्रियमानः चिरं स्थितः, परं न कोऽपि साधवेदात्। ततो रुष्टः साधुः 'द्वितीयमृतकसङ्खयां दास्यते' इत्युक्त्वा गतः। “नाऽन्यथा ऋषिभाषितं” इति हेतोः द्वितीयो मृतः तस्य सङ्खयां अपि गतः, परं न किमपि दत्तं। ततोऽतिकोपेन पुनः 'तृतीयमृतकसङ्खयां दास्यती'ति उक्त्वा गतः, तृतीयोऽपि मृतः पुनः साधुः गतः, परं न किमपि दत्तं, ततः अतिचण्डकोपेन पुनः अन्यमृतकसङ्खड्यां दास्यतीति वदन् केनापि स्थविरेण द्वारपालेन श्रुतः। ततः तेन स्वामिनः प्रोक्तं-"भो! अयं साधुः घृतपूरदानेन सुप्रसन्नः कार्यः, नो चेत् अन्येऽपि मरिष्यन्ति" इति । ततो गृहखामिना आकार्य घृतपूरैः साधुः प्रतिलाभितः। एवं यथा अनेन साधुना क्रोधेन घृतपूरा गृहीताः तथा अन्यैः न ग्राह्याः॥१॥ | पुनः माने सेवइया साधुः, तथाहि-कोशलादेशे गिरिपुष्पकं नाम नगरं, तत्र “सेवइया"पर्वणि तरुणश्रमणानां एकेन साधुना प्रोक्तं-"भो! अद्य भिक्षावेलायां सर्वैः अपि सेवइयाभक्तं प्रचुरं लब्धं, तत्र का लब्धिः?, कथं अद्य “सेवइयापर्व" क्षणो वर्तते? परं स लब्धिपात्रं यः प्रभाते घृतखण्डसहित सेवइयाभक्तं आनयति साधूनां च प्रतिलाभयति।" तदा एकेन चेल्लकेन अभिमानेन "अहं आनयिष्यामि' इति प्रतिज्ञां कृत्वा द्वितीयदिने बृहत्तराणि प्रभूतानि पात्रकाणि लात्वा गतः इभ्यगृहे, दृष्टाश्च तत्र तास्तादृशा, 'भाषिता-गृहस्वामिनी देहि में तया लोभिन्या बाहं हकयित्वा निष्कासितो गृहात् । तेन चेल्लकेन अभिमानं कृत्वा प्रोक्तं-"पश्य त्वं, मया एता अवश्यं ग्रहीतव्या येन केन प्रकारेण ।” तयाऽपि मोक्तं-"यदि त्वं एता गृह्णासि तदा मम
For Private and Personal Use Only