SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मसंमुख कृतं । श्वश्रूजनेन-"अहो । गतं घृतं, किं करोमि।" अतः तदानयनाथ अपराधं अपराधं प्रति रेखां करोति क्षरेयीमध्ये, वक्ति च-"अहो जामातः! तव एते अपराधा:-त्वं होलिकाय आकारितो नागतः, एवं दीपालिकायां, एवं दीवासापर्वणि, इति रेखां कृत्वा घृतं सर्व अपकर्षितं आत्मसंमुखं आनीतं च। जामात्रा, विचारित-"अहो ! श्वश्रूजनेन बुद्ध्या उपायं कृत्वा घृतं सर्व अपकर्षितं । अथ किं कर्तव्यं ?" ततो | जामात्रा-“हे श्वश्रु! सर्वे अपराधा गताः, आवयोः मनोऽपि मिलितं, अथ सासू-जमाईबाला अलियां गलियां, कर्तव्यानि ।" इत्युक्त्वा क्षैरेयी-घृत-खण्ड-भृतस्थालमध्ये हस्तं क्षित्वा सर्वत्र भ्रामयित्वा वयमपि एकीकृत्य द्वाभ्यां भुक्तं, गतं रूसणकं । एवं धर्माधिभिः अपि कथञ्चित् रागद्वेपी उत्पन्नौ तथापि तौ पर्वणि मुक्त्वा परस्परं शल्यं मुक्त्वा मनःशुद्ध्या मिलनीयं मिथ्यादुष्कृतं च देयं । एवं क्रोध १ मान २ माया ३ सोभो ४ | परि पल्लीपति १ अचंकारिभट्टा २ ऐरावणीभूतपाण्डुभार्या ३ मथुरामङ्गु ४ प्रमुखाणां बहवो दृष्टान्ताः सन्ति, परं अन्यविस्तरभिया न लिखिताः॥ तथा चतुर्मास्यां स्थितानां निर्ग्रन्थानां निग्रन्थीनां च विशेषतः क्रोधमानमायालोमैः आहारग्रहणं न x युक्तं । तत्र श्रीभद्रबाहुवामिकृतपिण्डनियुक्तिगत सम्बन्धचतुष्टयं प्रोच्यते। तत्र प्रथम क्रोधपिण्डग्रहणोपरि घृतपूर-क्षपकदृष्टान्तो यथाहस्तिकरूपे नगरे एकः साधुः मासक्षपणपारणे भिक्षा हिण्डन् ब्राह्मणगृहे मृतकभक्तसवाड्यां प्रविष्टः । तत्र For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy