Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 607
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपाध्यायश्रीसमयसुन्दरगणिकृताश्रीकालिकाचार्यकथा ॥ प्रणम्य श्रीगुरुं गद्य-पद्यवार्ताभिरद्भुतं । कालिकाचार्यसम्बन्धं, वक्ष्येऽहं शिष्यहेतवे ॥१॥ अत्र पूर्व स्वबिरावली व्याख्याता, तत्र श्रीकालिकाचार्योऽपि महाप्रभावकः स्थविरो बभूब, तेन तस्यापि सम्बन्धः कथ्यतेतत्र कालिकाचार्याः त्रयः स्थविरा जाताः । तन्मध्ये एकः श्रीकालिकाचार्यः श्रीमहावीरदेवनिर्वाणात् सं० ३७६ वर्षे श्रीश्यामाचार्यनामा श्रीप्रज्ञापनासूत्रकर्ता पूर्वविदां वंशे श्रीसौधर्मस्वामितः आरभ्य त्रयोविंशतितमः पुरुषो जातः । येन ब्राह्मणीभूतसौधर्मेन्द्राग्रे निगोदविचारः | कथितः । अत्र केचित् वदन्ति-"सिरिवीरजिणंदाओ तिन्निसए परिसवीसयोलीणे । कालयसूरी जाओ, सको पडिवोहिओ जेण ॥१॥" इति गाथादर्शनात् । ३२० वर्षे निगोदविचारकथकः श्रीकालिकाचार्यों जातः ॥ केचित् वदन्ति-"तिसय-पणवीस इंदो, चउसयतिपन्न A सरस्सईगहिया | नवसय तिनवह वीरा, चउत्थिए जो कालगायरिया ॥१॥" इति निर्मूलप्रायगाथादर्शनात् ३२५ वर्षे जातः ॥ केचित् वदन्ति-चतुर्थ्यां पर्युषणापर्वप्रवर्तक एव निगोदविचारव्याख्याता, यथाश्रुतं बहुश्रुता विदन्तीति ॥ १ ॥ द्वितीयस्तु कालिकाचार्यः श्रीवीरनिर्वाणात् सं० ४५३ वर्षे सरस्वतीभ्राता गर्दभिल्लोच्छेदकः बलमित्र-मानुमित्रनृपयोश्च मातुलो जातः । कुत्रापि तुर्यः चतुर्थी पर्युषणापर्वप्रवर्तककालिकाचार्यः स तयोर्मातुलः प्रोकोऽस्ति, यत् अस्ति तत् प्रमाणं ॥२॥ तृतीयस्तु श्रीकालिकाचार्यः श्रीवीरनिर्वाणात् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628