Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 616
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रे ने दिन ॥२८८॥ साध्वीं" इत्यादि बहुतरं प्रोक्तं । परं स कुकर्मा कामी राजा न मुञ्चति । ततः सद्देन यथागतेन तथाऽऽगतेन श्रीसूरीणां प्रोक्तं । ततः श्रीका-याकालिका|लिकाचार्येण कोपाक्रान्तेन सवाग्रे प्रोक्तं-"अहं समर्थः सन् जिनशासनप्रत्यनीकानां यदि शिक्षा न दमि तदा जिनाज्ञाविरोधकत्वेन दुर्गतिकः स्या। मामला यदुक्तं-'ये प्रत्यनीका जिनशासनस्य, सङ्घस्य ये चाशुभवर्णवाचः । उपेक्षकोडाहकरा धरायां, तेषामहं यामि गति सदैव ॥१॥ ततः प्रतिज्ञा चक्रे-"सदाऽहं गर्दभिलं सराज्यं न उन्मूलयामि तदाऽहं न कालिकाचार्यः ।" ततः खगच्छभारं गीतार्थेषु स्थापयित्वा खयमाथिलोऽपि प्रथिलीभूय कर्दमादिना गात्रं अनुलिम्पन् , नगरमध्ये भ्रमन् , वक्ति-"यदि गर्दभिल्लो राजा, ततः किं ?, यदि तस्य नगरं महत् , तर्हि किं, यदि गर्दभिल्लस्य अन्तःपुरस्त्रियो बढ्यः, ततः किं ?, यदि राज्ञः भाण्डागार-कोष्ठागार-हस्ति-तुराम-रथ-पदातयो बहवः, ततः किं ?, यदि राजा प्राज्यं साम्राज्यं भुनक्ति, तदा मम किं!।" इत्येवं प्रलपन्तं प्रतिमार्ग प्रतिगृहं अमन्तं कालिकाचार्य दृष्ट्वा नगरवासिनो लोकाः सामन्तश्रेष्ठि-सेनापति-मत्रिपमुखा एकीभूय राज्ञः समीपे गत्वा एवं प्रोक्तवन्तः-“हे राजेन्द्र ! अयं महापुरुष आचार्यों निजभगिनीस्नेहात् अथिलो जातः, ततः कृपां कृत्वा साध्वी मुञ्च यथाऽयं सज्जो भवति" इत्यादिवचनानि श्रुत्वा कुपितो राजा वक्तुं प्रवृत्तः-"रे लोकाः! यात यात मम दृष्टितः, एवंविधां शिक्षा निजगृहे निजमातृपितृभ्रातृकलत्रादीनां दत्त ।" ततः सामन्तादयो लोका विलक्षीभूय खगृहं जग्मुः। श्रीआचार्यैरपि श्रुतं यत् | 'सामन्तादिवचनमपि न मानितं', अथ यदि तेन अधमेन अतितानितं तर्हि त्रुटत्येव, यतः-'अतिताण्युं त्रुटइ, अतिभयुं फूटइ । अतिखाधु खूटइ, अतिढीली गांठि छूटइ ।' तस्मात् किश्चित् वैरूप्यं कर्तव्यं । अत्रापि न सातव्यं च, कुत्राऽपि देशे गत्वा कमपि उपायं करोमि" इति निश्चित्य श्रीकालिकाचार्याः सिन्धुनदीतटे पश्चिमदिशि एकः पार्श्वकूलो देशोऽस्ति, तत्र गताः, तत्र देशे ये राजानः ते सर्वेऽपि “साखी" इति कथ्यन्ते । तत्र एकस्य साखीभूपस्य नगरसमीपे महात्मवेषेण गताः । तस्मिन् प्रस्तावे तत्र एका कूपिका वर्तते । तत्पार्श्वतो बहवः कुमारा ॥२. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628