Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
नासिकावर्धनं ज्ञेयं” इति । ततः साधुर्नि गत्य]गतः, गच्छता च पृष्टं-"भो! इदं कस्य गृहं ?, गृहस्वामी च कुत्र सांप्रतं वर्तते।" केनापि प्रोक्तं-“देवदत्तस्य गृहं, सोऽपि सभायां सांप्रतं वर्तते।" ततो गतः चेल्लकः सभायां पृष्टाः सभापूरुषा:-"भो! भवतां मध्ये देवदत्तः कः?" तैः प्रोक्तं-"किं प्रयोजन ?" चेल्लकेन प्रोक्तं"तत्पार्धात् किमपि याचिष्ये।" तदा तैः भणितं-"किं तेन कृपणेन याचितेन ?, वयं याचितव्याः यथा अर्थसिद्धिः भवेत् ।" ततो देवदत्तेन भणितं-"यत् त्वं याचिष्यसे तत् अहं दास्यामि ।" ततः साधुना सभासमक्षं प्रोक्तं-"भो देवदत्त ! यदि त्वं एतेषां षण्णां स्त्रीवशवर्तिनां पुरुषाणां अन्यतमो न भवसि तदा याचे।” तैः। भणितं-"के ते?" चेल्लकेन भणितं-"श्वेताङ्गुलिः १ बकोड्डाही २ किङ्करः ३ तीर्थस्नातः ४ गृध्र-इव-रिडी ५ हदज्ञः६। एते षट्रपुरुषा अधमाः कथिताः।" तत्र श्वेताङ्गुलिसम्बन्धो यथा-एकेन निज भार्यावशवर्तिना कुलपुत्रकेन क्षुधातुरेण प्रभाते एवं भणितं-“हे भार्ये! अन्नपाकं कुरु, यदि तब रोचते येन अहं भुजे।" ततः तया शय्यास्थितया एव भणितं-"यदि त्वं क्षुधितोऽसि तदा चुल्हीतो रक्षां निष्कास्य बहिर्निक्षिप, इन्धनं आनय, अग्निं प्रज्वालय, चुल्हीमस्तके हण्डिकां स्थापय, तन्मध्ये पानीयं क्षिप। पुनः कोष्ठकात् आनीय तण्डुलान् प्रक्षिप, ततोऽन्नपाकं कृत्वा मम कथय, येनाहं उत्थाय तवान्नं परिवेषयामि।" तेन प्रोक्तं-"हे प्रिये! यत् त्वया आज्ञप्तं तत् प्रमाणं।" ततः तथैव सर्वमकरोत्, तत एवं प्रत्यहं तस्य कुर्वतः-प्रभाते चुल्हीतो रक्षा बहिनिक्षिपतो रक्षया कृत्वा अङ्गुलयः श्वेता दृश्यन्ते, तेन लोकेन "श्वेताङ्गुलिः" इति तस्य नाम दत्तं ।।
मालय, चुल्होममम कथय,
रोत्, तत
For Private and Personal Use Only

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628