Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्ति, परं अस्माभिः कियन्तो लिखिताः, अन्ये दृष्टान्ताः अन्यैः अन्यशास्त्रेभ्यो ज्ञेया वाच्याश्च ।। इति चतुर्विंशतितमा सामाचारी ॥ २४ ॥
अथ उपाश्रयाधिकाररूपां पञ्चविंशतितमा सामाचारी आह_वासावासं पजोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उवस्सया गिण्हित्तए, तं
जहा-वेउविया पडिलेहा ई साइजिया पमजणा ३॥ ६०॥ (२५) व्याख्या-"वासावासं" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च त्रय उपाश्रया वर्षासु ग्रहीतुं उपकल्पन्ते । संसक्ति-जलप्लावनादिदोषभयात् "त" इति पदं तत्रार्थे संभाव्यते । “विउविया पडिलेहा" कचित् |"वेउद्विआ पडिलेहा" इति दृश्यते, उभयत्रापि पुनः पुनः इत्यर्थः। “साइजिआ पमजणा” इति । आर्षे “जे भिक्खू हत्थकम्मं करेइ करतं वा साइजति" इति वचनात् । “साइञ्जि" धातुः आखादने वर्तते, तत उपभुज्यमानो य उपाश्रयः स "कयमाणे कडे” इति न्यायात् “साइजिउत्ति" भण्यते, तत्संबन्धिनी प्रमार्जना 'साइजिआ'। यस्मिन् उपाश्रये साधवः स्थिताः सन्ति तं उपाश्रयं प्रातः प्रमार्जयन्ति १ पुनः भिक्षा गतेषु साधुषु २ पुनः मध्यान्हे ३ पुनः प्रतिलेखनाकाले तृतीयप्रहरान्ते ४ इति वारचतुष्टयं प्रमार्जयन्ति वर्षासु, ऋतुबद्धे तु त्रिवारं । अयं च विधिः असंसक्ते, संसक्ते तु पुनः पुनः प्रमार्जयन्ति । शेषोपाश्रयद्वयं
For Private and Personal Use Only

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628