SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्ति, परं अस्माभिः कियन्तो लिखिताः, अन्ये दृष्टान्ताः अन्यैः अन्यशास्त्रेभ्यो ज्ञेया वाच्याश्च ।। इति चतुर्विंशतितमा सामाचारी ॥ २४ ॥ अथ उपाश्रयाधिकाररूपां पञ्चविंशतितमा सामाचारी आह_वासावासं पजोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उवस्सया गिण्हित्तए, तं जहा-वेउविया पडिलेहा ई साइजिया पमजणा ३॥ ६०॥ (२५) व्याख्या-"वासावासं" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च त्रय उपाश्रया वर्षासु ग्रहीतुं उपकल्पन्ते । संसक्ति-जलप्लावनादिदोषभयात् "त" इति पदं तत्रार्थे संभाव्यते । “विउविया पडिलेहा" कचित् |"वेउद्विआ पडिलेहा" इति दृश्यते, उभयत्रापि पुनः पुनः इत्यर्थः। “साइजिआ पमजणा” इति । आर्षे “जे भिक्खू हत्थकम्मं करेइ करतं वा साइजति" इति वचनात् । “साइञ्जि" धातुः आखादने वर्तते, तत उपभुज्यमानो य उपाश्रयः स "कयमाणे कडे” इति न्यायात् “साइजिउत्ति" भण्यते, तत्संबन्धिनी प्रमार्जना 'साइजिआ'। यस्मिन् उपाश्रये साधवः स्थिताः सन्ति तं उपाश्रयं प्रातः प्रमार्जयन्ति १ पुनः भिक्षा गतेषु साधुषु २ पुनः मध्यान्हे ३ पुनः प्रतिलेखनाकाले तृतीयप्रहरान्ते ४ इति वारचतुष्टयं प्रमार्जयन्ति वर्षासु, ऋतुबद्धे तु त्रिवारं । अयं च विधिः असंसक्ते, संसक्ते तु पुनः पुनः प्रमार्जयन्ति । शेषोपाश्रयद्वयं For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy