________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मायालोभदृष्टान्तौ
कल्पसूत्रं
सच तस्याः संमुखं विलोक्य नासिकाया उपरि अङ्गुलिभ्रामणं चक्रे। ज्ञापितं च-"तव नकर्तनं जातमस्ति।" कल्पलता
तत उपाश्रये समागत्य सर्वे साधवो भोजिताः । एवं एतद्वत् मानपिण्डो न ग्राह्यः॥२॥ मायायां आषाढभूतिव्या०९ दृष्टान्तः, स तु प्रसिद्धत्वात् न लिखितः॥३॥ लोभे सिंहकेसरिकसाधुदृष्टान्तो यथा-चम्पानगयाँ उत्सवदिने
XIपारणायां एकेन क्षपकसाधुना अभिग्रहो गृहीतः-"मया अद्य सिंहकेसरिकमोदका ग्रहीतव्याः।" ततः प्रतिगृहं * ॥२७७॥
भ्रमतः तस्य मोदकान न कोऽपि ददाति, अन्यत्तु न लाति । ततः तस्य अलभमानस्य संक्लिष्टपरिणामेन चित्तं नष्टं। ततः प्रतिगृहं धर्मलाभ भणन् अर्धरात्री गतः कस्यचित् श्रावकस्य गृहे, तेन गम्भीरेण मातृपितृसमानेन धर्मलाभश्रवणात् ज्ञातं-“कोऽपि कर्मवशगः साधुः (इति)।” तेन उत्थाय वन्दितः। प्रोक्तं च"भगवन् ! किं विलोक्यते?" तेनोक्तं-"सिंहकेसरिकमोदकाः।" तेनोक्तं-"गृहाण बहवः सन्ति निर्दोषाः।"* ततः तेन दत्ताः, तेन गृहीताश्च, साधोः मनसि स्वास्थ्यं जातं । ततः श्रावकेण पृष्टं-"भगवन् ! मया पुरिमार्धपत्याख्यानं कृतमासीत् तत् पूर्ण न वा?" मुनिना उपयोगदानेन गगनं दृष्टं-"आकाशे निर्मलास्तारा"| इति नक्षत्रश्रेणिशोभितं चन्द्रमण्डलं विलोक्य प्रत्यागतचेतनो-“हा! मया किं कृतं?, को ममाचार:?" इति | पश्चात्तापं कुर्वन् निवृत्तो नगरात् सूत्रोक्तविधिना मोदकान् परिष्ठापयन्-"अहो! कर्माणि दुर्जेयानि !, अहो।
S कर्मणां परिपाकः!, हा! मया दुष्टं कृतं!” इत्यादि पश्चात्तापपूर्व शुभध्यानेन केवलज्ञान प्राप । अत्राऽयं | भावो यथा-अनेन लोभेन सिंहकेसरिका मोदका गृहीताः, तथा अन्येन न ग्राह्याः। एवं अत्र अनेके रष्टान्ताः
॥२७७॥
For Private and Personal Use Only