________________
Shri Mahavir Jain Aradhana Kendra
कल्प० ४७
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुरु ।" कृतं पुनः भणितं " - "किं करोमि ? " तया भणितं - " मम मलमूत्रमल्लके परिष्ठापय ।” परिष्ठापितं, पुनः भणितं - " किं करोमि ? ।" तया भणितं - "अहं शये, त्वं मम पादौ विश्रामये" इति । एतादृशो भवसि तदा न याचे ।” तेनोक्तं- "नाहं एतादृशः, यत् त्वं याचिष्यसे तत् दास्यामि ॥” एवं अन्यत् सम्बन्धत्रयं श्रीपिण्डविशुद्धिवृहट्टीकातो ज्ञेयं । ततः सभातरुणैः प्रोक्तं- "भो चेल्लक! स्त्रीवशवर्तिनो दोषाः सर्वेऽपि अस्मिन् देवदत्ते वर्तन्ते । इति उपहासे कृते देवदत्तः प्राह - “भो भगवन् ! मा एतेषां वचनं शृणु, याचख यत् ते रोचते" । चेल्लन भणितं - " देहि मे घृतखण्डसहिताः श्वेतवर्तिकाः ।" ततो " ददामि” इत्युक्त्वा तं साधुं गृहीत्वा गृहाय चलितः । गृहद्वाराऽगमने चेल्लवेन भणितं “भो ! तव भार्यया समं मम क्लेशो जातोऽस्ति पूर्वं । तेन विचारय । ” तेन देवदत्तेन प्रोक्तं- “भो ! त्वं बहिरेव तिष्ठ, अहं गृहमध्ये गत्वा सुसचं कृत्वा आकारयामि, तदा आगच्छेः ।" तथैव कृत्वा गृहमध्ये गत्वा पृष्टा भार्या - "अद्य ये ब्राह्मणा निमन्त्रिताः सन्ति तान् समाकारयामि, जाता भोजनसामग्री १।" तया प्रोक्तं-"ओम्" इति । देवदत्तेन ज्ञातं - " अस्यां सत्यां न दातुं शक्नोमि " इति प्रोक्तं, “निश्रेण्यां चटित्वा उपरिष्टात् घृतगुडादि प्रचुरं आनय ।" सा चटिता उपरि, आकारितः साधुः । तेन साधुना उक्तं- "भो देवदत्त ! इमां निश्रेणीं दूरे कुरु यथा स्वेच्छया निश्चिन्तो विहरामि ।" तेन तथा कृते साधुना खेच्छया घृतगुडसहिताः अटिताः श्वेतवर्तिकाः । सा उपरिस्था पश्यति, दुःखं करोति, कोलाहलं करोति, परं न किमपि कर्तुं शक्नोति । साधुरपि ताभिः पात्राणि भृत्वा निःसृतो, निर्गच्छन्
For Private and Personal Use Only