________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ९
॥ २७६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चेल्लको वक्ति- "भो देवदत्त ! त्वमपि यदि एतत्सदृशोऽसि तदा न प्रार्थयामि, अन्यथा प्रार्थयामि ।” देवदत्तेन प्रोक्तं- "न भवामि एतादृशः १ ॥" ततः पार्श्ववर्तितरुणपुरुषैः प्रोक्तं- "बकोड्डाही कोऽभूत् ?, तत्सम्बन्धं ब्रूहि ।” चेल्लकः प्राह - " श्रूयतां - एकः कोऽपि कुलपुत्रकः स्त्रीवशवर्ती आसीत् । शय्यासुतया स्त्रिया भणितं"अहं पानीयं न आनयिष्यामि, त्वं उत्तिष्ठ, प्रतिदिनं सरोवरात् पानीयं आनय ।" तेन अत्यन्तप्रेमपरवशेन अङ्गीकृतं । परं दिवसे लज्जमानो रात्रिपश्चिमप्रहरे सर्वलोकेभ्यः पूर्व घरं मस्तके स्थापयित्वा पानीयार्थ सरोवरे याति । तत्र यकान् खेच्छया स्थितान् उड्डयति । प्रत्यहं एवं बकान् उड्डयतो दृष्ट्वा लोकैः "बकोड्डाही” इति नाम भणितं । तत् त्वमपि एतादृशो भवसि तदा न याचे ।” देवदत्तेनोक्तं- "नहि नहि ।” पुनः तरुणैः उक्तं"वद वद किङ्करः कः ? ।" चेल्लकः प्राह - "एकः कुलपुत्रकः, परं स्त्रीवशवर्ती अत्यन्तप्रेमानुरक्तः, प्रभाते एव शयनतः उत्थाय अञ्जलिं योजयित्वा आदेशं याचते - "हे प्रियतमे ! वद किं करोमि ।" तया भणितंपानीयं कूपत आनय ।" आनीतं पुनः भणितं - "अथ किं करोमि ? ।" तया भणितं - "तन्दुलान् खण्डय ।” स्खण्डिताः, पुनः भणितं "किं करोमि ।" तया भणितं "सर्व अन्नपार्क कुरु ।" कृतः, पुनः भणितं " किं करोमि ? ।” तथा भणितं - "आसनं मण्डय ।” मण्डितं, पुनः भणितं " किं करोमि ।" तया भणितं - "मां बाहुं गृहीत्वा आसने उपवेशय ।" उपवेशिता, पुनः भणितं-" किं करोमि ? ।" तया भणितं - "रसवतीं परिवेषय ।” परिवेषिता, पुनः भणितं - " किं करोमि ? ।” तया भणितं यावत्कालं मुझे तावत्कालं मक्षिकारक्षणं
For Private and Personal Use Only
माने
सेवइया
साधु
दृष्टान्तः
॥ २७६ ॥