________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एवं षष्ठोऽपि मण्डितः तस्य संदेह:- 'कर्मणां बन्धमोक्षौ बर्तेते न वा ? ॥ ६ ॥ एवं सप्तमो मौर्यपुत्रः, तस्य संदेह:- 'देवाः सन्ति न वा १ ॥७॥ एवं अष्टमोऽकम्पितः, तस्य संदेह:- 'नारकाः सन्ति न वा १ ॥ ८॥' एवं नवमः अचलभ्राता, तस्य सन्देह :- 'पुण्यपापानि वर्तेते न वा १ ॥२९॥ एवं दशमो मेतार्यः, तस्य संदेह:- 'परलोकोऽस्ति न वा १ ॥ १० ॥ एवं एकादशोऽपि प्रभासः, तस्य सन्देह:- 'निर्वाणं अस्ति न वा ? ॥ ११ ॥' एवं एकादशापि गणधराः श्रीवीरमुखात् वेदपदानां अर्थ श्रुत्वा भग्नसंशया उत्पन्नवैराग्याः प्रतिबुद्धाः सन्तो निजनिजपरिवारसहिताः दीक्षां जगृहुः । सर्वेऽपि गणधराः त्रिपदीं लात्वा, द्वादशाङ्गीं रचयामासुः । विस्तरगणधरवादस्तु श्री आवश्यकतत्परिकरादिभ्यो ज्ञेयः मया तु अतिविस्तरभिया न लिखितोऽस्ति ॥
* इति गणधरवादः समाप्तः ॥ 8
अथ श्रीभगवतः सर्वचतुर्मासी सङ्ख्यामाह, तत्राह
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगामं नीसाए पढमं अंतरावासं वासावासं उवागए १, चंपं च पिट्ठचंपं च नीसाए तओ अंतरावासे वासावासं उवागए ४, सालिं नगरं वाणियगामं च नीसाए दुबालस अंतरावासे वासावास उवागए १६, राय
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
******