________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वयेनापि समं एका साध्वी न तिष्ठेत् ३ एवं साधुद्वयेनापि समं साध्वीद्वयं नो तिष्ठेत् ४ तर्हि कथं तिष्ठेत् ?* इत्याह-अस्ति च अत्र कश्चित् पश्चमः क्षुल्लकः साधूनां क्षुल्लिका वा साध्वीनां तदा तिष्ठेत् , साधुर्हि आत्मना द्वितीय उत्सर्गतः१ संयत्यस्तु ज्यादयः “घटकों भिद्यते मन्त्रः" इति न्यायात् । पक्षान्तरं आह-यदि क्षुल्लकादिर्न स्यात् तदा तत्र अन्येषां धुवकर्मिकलोहकारादीनां वर्षत्यपि अमुक्तखकर्मणां संलोके-दृष्टिपथे तत्रापि सप्रतिद्वारे सर्वगृहाणां वा द्वारे एवं वा स्थातुं कल्पते। "एवं पहं" इति वाक्यालङ्कारे । एवमेव चतुर्भङ्गी गृहिण्या सह ज्ञेया । तथाहि-एकः साधुः एका गृहिणी १, एकः साधुः गृहिणीद्वयं २, साधुद्वयं गृहिणी एका ३, साधुद्वयं गृहिणीद्वयं ४, एवमपि न तिष्ठेत् । एवं अगारं अस्याऽस्तीति अभ्रादित्वात् अप्रत्यये अगारो-गृही, तेनापि समं चतुर्भङ्गी ज्ञेया-एका साध्वी एको गृहस्थः १, साध्वीद्वयं एको गृहस्थः २, एका साध्वी गृहस्थद्वयं ३, साध्वीद्वयं गृहस्थयोः अपि द्वयं ४ एवमपि सति नो स्थातव्यं ॥ इति त्रयोदशी सामाचारी ॥ १३ ॥
अथ अपृष्टार्थे विहरणनिषेधरूपां चतुर्दशी सामाचारी आहवासावासं पजोसवियाणं नो कप्पइ निम्गंथाण वा निग्गंथीण वा अपरिगणएणं अपरिणयस्स
अट्ठाए अलणं वा १ पाणं वा २ खाइमं वा ३ साइमं वा ४ जाव पडिगाहित्तए ॥ ४०॥ से | किमाहु भंते !?, इच्छा परो अपरिणए भुजिज्जा, इच्छा परो न भुजिज्जा ॥ ४१॥ (१४)
For Private and Personal Use Only