Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 576
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षमयितव्यः खयमेव क्षामयितव्यः। पर: अव्यक्तत्वात् नपुंसकत्वं किं तस्या गर्भे जातमिति तथा उपशमयितव्यं आत्मना उपशमः कर्तव्या उपशमयितव्यः परः। "जं अजिअं समीपत्तएहिं तवनिअमवंभमइएहिं । मा हुतयं कलहंता, उल्लिंचह सागपत्तेहिं ॥१॥ जं अनि चरितं देसूणाए वि पुषकोडीए । तं पि कसाइमित्तो, हारेइ नरो मुहुत्तेणं ॥२॥" इत्यादिभिः उपदेशैः पुनः “समुइसंपुच्छणाबहुलेण होयचं" इति संमुआ [इ] रागद्वेषरहिता मतिः तत्पूर्व संपृच्छना सूत्रार्थेषु ग्लानाग्लानानां वा तहहुलेन भाव्यं रागद्वेषी विहाय येन सह अधिकरणं आसीत् तेन सहसूत्रार्थे संपन्नः कार्यः, तदुदन्तश्च वोढव्यः । यदि एकतरस्य क्षमयतोऽपि एको न शाम्पति तदा किं, इत्याह-"जो उवसमइ त्ति" य उपशाम्यति उपशमयति वा कषायान् तस्य अस्ति आराधना ज्ञानादीनां, यश्च नो उपशाम्यति तस्य नास्ति आराधना । तस्मात् आत्मना एव उपशमः कर्तव्यः। कुत एवं', इत्याह"उवसमसारं खु सामण्णं" खुः-निश्चयेन, श्रामण्यं श्रमणभावः उपशमसारं उपशमप्रधानं । ___“सामण्णमणुचरंतस्स, कसाया जस्स उकहा हुति । मन्नामि उच्छुपुर्फ व, निम्फलं तस्स सामण्णं ॥१॥" इति वचनात् ।। इति चतुर्विंशतितमा सामाचारी ॥ २४ ॥ | अत्र समितिगुप्तिक्रोधमानमायालोमादीनां दृष्टान्ता वाच्याः । वर्षाकाले विशेषतः साधुना समित्यादयः पालनीयाः। ईर्यासमिती वरदत्तो मुनिर्यथा-इन्द्रेण वरदत्तमुनेः प्रशंसा कृता-“अथ भरतक्षेत्रे एतादृशो न For Private and Personal Use Only

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628