________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षमयितव्यः खयमेव क्षामयितव्यः। पर: अव्यक्तत्वात् नपुंसकत्वं किं तस्या गर्भे जातमिति तथा उपशमयितव्यं आत्मना उपशमः कर्तव्या उपशमयितव्यः परः। "जं अजिअं समीपत्तएहिं तवनिअमवंभमइएहिं । मा हुतयं कलहंता, उल्लिंचह सागपत्तेहिं ॥१॥
जं अनि चरितं देसूणाए वि पुषकोडीए । तं पि कसाइमित्तो, हारेइ नरो मुहुत्तेणं ॥२॥" इत्यादिभिः उपदेशैः पुनः “समुइसंपुच्छणाबहुलेण होयचं" इति संमुआ [इ] रागद्वेषरहिता मतिः तत्पूर्व संपृच्छना सूत्रार्थेषु ग्लानाग्लानानां वा तहहुलेन भाव्यं रागद्वेषी विहाय येन सह अधिकरणं आसीत् तेन सहसूत्रार्थे संपन्नः कार्यः, तदुदन्तश्च वोढव्यः । यदि एकतरस्य क्षमयतोऽपि एको न शाम्पति तदा किं, इत्याह-"जो उवसमइ त्ति" य उपशाम्यति उपशमयति वा कषायान् तस्य अस्ति आराधना ज्ञानादीनां, यश्च नो उपशाम्यति तस्य नास्ति आराधना । तस्मात् आत्मना एव उपशमः कर्तव्यः। कुत एवं', इत्याह"उवसमसारं खु सामण्णं" खुः-निश्चयेन, श्रामण्यं श्रमणभावः उपशमसारं उपशमप्रधानं । ___“सामण्णमणुचरंतस्स, कसाया जस्स उकहा हुति । मन्नामि उच्छुपुर्फ व, निम्फलं तस्स सामण्णं ॥१॥" इति वचनात् ।। इति चतुर्विंशतितमा सामाचारी ॥ २४ ॥ | अत्र समितिगुप्तिक्रोधमानमायालोमादीनां दृष्टान्ता वाच्याः । वर्षाकाले विशेषतः साधुना समित्यादयः पालनीयाः। ईर्यासमिती वरदत्तो मुनिर्यथा-इन्द्रेण वरदत्तमुनेः प्रशंसा कृता-“अथ भरतक्षेत्रे एतादृशो न
For Private and Personal Use Only