________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ९
॥ २६९ ॥
XXX000
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोऽपि ईर्यासमितिपालकः ।" ततो देवेन परीक्षार्थं आगत्य गजरूपं कृत्वा शुण्डादण्डेन आकाशे उल्लालितः । अधश्च सूक्ष्ममण्डूक्यः पृथिव्यां विकुर्विताः, तेन अधः पतता चिन्तितं- "भम मरणभयं नास्ति परं अहो ! सूक्ष्ममण्डूकी जीवविराधना भविष्यति” इति चिन्तयन् तुष्टेन देवेन क्षामितः ॥ १ ॥
भाषासमिती सङ्गतः - साधुः स शत्रुरुद्धात् नगरात् निर्गतः, वैरिभिः पृष्ठं- “भो ! नगरमध्ये सैन्यस्य बलाबलं कीदृशं ? ।” तदा साधुः प्राह
"बहुं सुणेहिं कन्नेहिं, बहुं अच्छीहिं पिच्छई । न य दिहं सुयं सवं, भिक्खू अक्खाउ मरहई ॥ १ ॥” एवं पुनः पुनः वक्ति परं भाषां न भनक्ति, तदा पाठग्रहिल इति कृत्वा मुक्तः ॥ २ ॥
एषणासमितौ नन्दिषेण- वृत्तान्तः- वसुदेवजीवः पूर्वभवे नन्दिषेणो, ग्लानवैयावृत्त्यभिग्रही षष्ठकर्ता, इन्द्रप्रशंसायां देवेन अतीसारिसाधुविकुर्वणां कृत्वा तन्निमित्तं पानीयार्थं विहरणगमने जलस्य अशुद्धताकरणं देवस्य असावधानत्वे जलविहरणं ग्लानसाधुस्कन्धारोपणं अशुचिना वरण्टनं देवस्तुत्यादिकरणं च प्रसिद्धं ॥ ३ ॥
For Private and Personal Use Only
ईर्यादिसमितिदृष्टान्ताः
आदानादौ प्रतिलेखनाकरणे सोमिलः साधुः यथा काऽपि सन्ध्यायां विहारकरणे साधुभिः गुरुवचनेन सकाले प्रतिलेखनाः कृताः स्थितौ च । पुनः काले प्रतिलेखनाः कृताः । गुरुभिः प्रोक्तं- "भो सोमिल ! त्वमपि ॥ २६९ ॥ प्रतिलेखनां कुरु ।" तेन प्रोक्तं पुनः - "प्रतिलेखना किमर्थं क्रियते ? मध्ये किं सर्पाः उत्पन्नाः सन्ति १ ।” इति उल्लुण्ठवचनं भाषितं । तेन प्रभाते प्रतिलेखनासमये शिक्किकामध्यात् अकस्मात् देवेन सर्पान् निष्कास्य