________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भापितः साधुः नष्ट्वा गुरुसमीपे गत्वा सर्पनिर्गमनखरूपं प्राह । गुरुभिः प्रोक्तं-"भो साधो! पूर्व त्वया उल्लण्ठवचनं उक्तं, एवं नोच्यते प्रतिलेखनायां तु महती निर्जराऽस्ति । श्रेष्ठिसूनोरिव स हि प्रव्रजितः अभिग्रह च जग्राह । यथा सर्वेषां साधूनां दण्डका मया प्रतिलिख्य प्रतिलिख्य हस्ते दातव्याः। एवं च कुर्वन् प्रभूतं कर्म क्षपयामास । सोमिलोऽपि तथैव कुर्वन् कर्म अक्षिपत् ॥ ४॥
उच्चारमश्रवणसमिती सुव्रताचार्यः क्षुल्लङ्कः स ह प्रव्रजितः । गुरुणा प्रोक्तं-"भो! स्थण्डिलानि कुरु।” स न करोति, वक्ति च-"किं तत्र उष्ट्राः स्थिताः सन्ति ?” इति रात्री मात्रकं परिष्ठापयन् उष्टरूपेण देवतया भापितः। गुरुणा प्रोक्तं-"अदृष्टस्थण्डिले मात्रकादि अत्यजतां, देवता साहाय्यं स्यात्, यथा अत्रैव गच्छे अप्रतिलेखितस्थण्डिले अत्यजन् कायिक्या बाधितः देवतया उद्येते कृते इति अद्राक्षीत् । पुनः अन्धकारे जाते देवकृतं सर्व स्वरूपं ज्ञात्वा पश्चात् आलोच्य सिद्धः, सोऽपि क्षुल्लकः तथैव अकरोत् ५ एवं पञ्चसमितयो वर्षासु विशेषतः प्रतिपालनीयाः ॥५॥ | अथ गुप्तयः-तन्त्र मनोगुप्तौ कौङ्कणकः साधुः कायोत्सर्गे स्थितः, गुरुभिः प्रोक्तं-"बही वेला जाता, भो ! किं ध्यायसि?" तेन प्रोक्तं-"मया जीवदया ध्याता । का जीवदया?" स ऊचे । पुत्राणां दयया क्षेत्रसूदनवल्लीदहनादि ध्यातं । गुरुणा प्रोक्तं-"मिथ्यादुष्कृतं देहि, एवं न ध्यातव्यं महान् आरम्भो लगति।" सोऽपि तथैव | अकरोत् ११ वचनगुप्तौ गुणदत्तःसाधुः, स हि श्रीपुरे धनवतीपुत्रः सांसारिकवन्दापनाय गच्छन् जन्याया वयं न
For Private and Personal Use Only