________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०९
योविंशतिचतुर्विशत्यो सामाचायौँ
॥२६८॥
अकल्प्य इति भावः । पुनः यो निर्ग्रन्धादिः पर्युषणातः परं अधिकरणं वदति स "निलहियो सिआ" इति निहितव्यः-ताम्बूलिकपत्रदृष्टान्तेन गच्छात् निष्कास्यः स्यात्, उपशान्तोपस्थितस्य च मूलं दातव्यं-नवीनं चारित्रं देयम् ॥ इति त्रयोविंशतितमा सामाचारी ॥२३॥ अथ परस्परक्षामणाधिकाररूपां चतुर्विंशतितमा सामाचारी आहवासावासं पजोसवियाणं इह खलु निग्गंथाण वा निग्गंथीण वा अजेव कक्खडे कडुए बुग्गहे समुप्पजिज्जा, सेहे राइणियं खामिजा, राइणिएऽवि सेहं खामिजा, (सं० १२००) खमियत्वं खमावियत्वं उपसमियत्वं उवसमावियत्वं सुमइसंपुच्छणाबहुलेणं होयत्वं । जो उवसमइ तस्स अस्थि आराहणा, जो न उवसमइ तस्स नस्थि आराहणा, तम्हा अप्पणा चेव उवसमियवं, से किमाहु भंते !?, उवसमसारं खु सामण्णं ॥ ५९॥ (२४) व्याख्या-"वासावास" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्घन्धीनां च इह प्रवचने अथैव पर्युषणादिने "कक्खड" कक्खडा-उच्चैःशब्दः "कडुए ति" कडुको-जकारमकारादिरूपो “बुग्गहे त्ति" विग्रहः कलहा यदि समुत्पद्यते तदा शैक्षोऽवमरानिकः रत्नाधिकं रात्रिकं क्षामयति यद्यपि रात्रिका प्रथम सामाचारीवितथाकरणे अपराद्ध तथापि शैक्षेण रात्रिकः क्षामणीयः। अथ शैक्षोपुष्टधर्मा तदा रानिकः तं प्रथम क्षमयति, तस्मात्
Xol
॥२६८॥
For Private and Personal Use Only