________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूचयति । अथवा एष सर्वः आपृच्छय भिक्षागमने विकृतिग्रहणादिः मात्रकावसानः सांवत्सरिको-वर्षाकाल*संबन्धी स्थविरकल्पः स्थविरमर्यादा, वाशब्दः किञ्चिजिनकल्पिकानां अपि सामान्यता सूचयति, परं प्रायः स्थविराणां एवायं कल्प इत्यर्थः ॥ इति द्वाविंशतितमा सामाचारी ॥२२॥
अथ अधिकरणाऽनुदीरणाधिकाररूपांत्रयोविंशतितमा सामाचारी आहवासावासं पजोसविआणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा परं पज्जोसवणाओ अहिगरणं वइत्तए, जे णं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयह से णं 'अकप्पेणं अज्जो ! वयसीति' वत्तवे सिया, जे णं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयइ से णं निजूहियवे सिया ॥ ५८ ॥ (२३) व्याख्या-"वासावासं" वर्षाकाले स्थितानां निर्ग्रन्थानां च निर्ग्रन्थीनां नो कल्पते, "परं पजोसवणाओ अहिगरणं वइत्तए" पर्युषणातः परं अधिकरणं-राटिः तद्वचनं अपि अधिकरणं वदितुं, अथ यो निर्ग्रन्थादिः * पर्युषणातः परं अधिकरणं वदति, तस्य किं वक्तव्यं, इत्याह-"से णं अकप्पेणं अजो बत्तवं सिआ" हे आर्य!
अकल्पेन-अनाचारेण वदसि इति वक्तव्यः स्यात्, यतः पर्युषणादिनतोर्वाक पर्युषणादिने एव वा यत् अधिकरणं उत्पन्नं तत् पर्युषणायां क्षामितव्यं । यच त्वं पर्युषणातः परं अपि अधिकरणं बदसि सोऽयं
For Private and Personal Use Only