SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता व्या०९ द्वाविंशति तमा सामाचारी ॥२६७॥ शिरोजा: केशा यस्य स लुञ्चितशिरोजः, तेन अपवादतो बालग्लानादिना क्षुरमुण्डेन उत्सर्गतो लुञ्चितशि-* रोजेन इत्यर्थः । केवलं प्रासुकोदकं आत्मना गृहीत्वा शिरः प्रक्षाल्य, नापितस्यापि प्रासुकपानीयेन करौ प्रक्षालयति । अथ यस्तु क्षुरेणापि कारयितुं अक्षमो व्रणादिमच्छिरा वा तस्य केशाः कर्तर्या कर्तनीयाः-कल्पनीयाः। “पक्खिआ आरोवणा त्ति" पाक्षिकं बन्धदानं संस्तारकदवरकाणां पक्षे पक्षे बन्धा मोक्तव्याः प्रतिलेखितव्याश्च इत्यर्थः। अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं वर्षासु विशेषतः। अत्र लोचाधिकारमध्ये "पक्खिआ आरोवणा ति" पदं सूत्रमध्ये वर्तते, वृत्तिकृता च व्याख्यातं, परं अत्र अनुपयोगिकं इव दृश्यते, पश्चात् तत्परमार्थों गीतार्थगम्यः । अथ कियता कालेन को लोचः कारयितव्यः?, इत्याह-"मासिए खुरमुंडे ति" मासे मासे असहिष्णुना क्षुरमुण्डनं कारणीयं १ "अद्धमासिए कत्तरिमुंडे ति" यदि कर्तयो कारयति तदा पक्षे पक्षे गुप्तं कारणीयं । क्षुरकर्तर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यं लघुमासो १ पुरिमा | लघुमास एकासनं च देयं । "छम्मासिए लोए पाण्मासिको लोचः "संवच्छरिए वा थेरकप्ये त्ति" स्थविराणांवृद्धानां जराजर्जरत्वेन असामयात् दृष्टिरक्षार्थ च, अर्थात् तरुणानां चातुर्मासिक: "संवच्छरो" वर्षारात्रः "संवच्छरं वा वि परं पमाणं, बीयं च वासं न तहिं वसिज्जा" इति वचनात् । ततः-संवत्सरे-वर्षासु भवः सांवत्सरिको वा लोचः स्थविरकल्पे स्थविरकल्पस्थितानां वर्षासु हि जिनकल्पिक-स्थविरकल्पिकानां ध्रुवो लोच इति वाशब्दो विकल्पार्थः । अपवादतो नित्यलोचाकरणेऽपि पर्युषणापर्वणि अवश्यं लोचः कार्य इति ॥२६॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy