________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ लोचाऽधिकाररूपां द्वाविंशतितमा सामाचारी आहवासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा परं पज्जोसवणाओ गोलोमप्पमाणमित्तेऽवि केसे तं रयणि उवायणावित्तए। अजेणं खुरमुंडेण वा लुक्कसिरएण वा होइयवं सिया । पक्खिया आरोवणा, मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा थेरकप्पे ॥ ५७॥ (२२) व्याख्या-"वासाचास" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च नो कल्पते पर्युषणातः परं आषाढचतुर्मासकात् अनन्तरं गोलोममात्रा अपि केशा न स्थापनीयाः आस्तां दीर्घाः, यावत् तां रजनी भाद्रपदसितपश्चमी रात्रि “उवायणावित्तए ति" अतिक्रमयितुं यतो "धुवलोओ उ जिणार्ण निचं थेराण वासासु" इत्युक्तं, केशेषु हि अप्कायो विराध्यते, तत्सगाच षट्पदिकाःसंमूच्छन्ति कण्डूयमानश्च ताःचण्डयति नरवक्षतं वा शिरसि स्यात्, यदि च क्षुरेण मुण्डापयति कर्ता [कर्तयति] वा तदा आज्ञाभङ्गाऽनवस्थामिथ्यात्वसं| यमात्मविराधना षट्पदिकाच्छेदन-नापितपश्चात्कर्म-शासनापभ्राजनादिदोषा भवन्ति, तस्मात् लोच एव श्रेयान् । यदि वाऽसहिष्णोः लोचे कृते ज्वरादिर्वा स्यात्, वालो वा रुचात्, धर्म वा त्यजेत् , ततो न तस्य लोच: कार्यः इत्याह-आर्येण साधुना क्षुरमुण्डेन वा लुश्चितशिरोजेन वा भवितव्यं स्यात् । “लुक्क ति" लुञ्चिताः
For Private and Personal Use Only