________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०९
॥२६६॥
"पाण य तण यत्ति" प्राणानां जीवानां आयतनानि स्थानभूतानि वीजादीनि इति योज्यं । अयं भावो वर्षा-विंशत्सककाले विशेषतः, पृथ्वी विशेषतः जीवाकुला भवति । तत उच्चारप्रश्रवणभूमित्रयं कार्यमेव ॥ इति विंशतितमा -
विंशत्यौ सामाचारी ॥ २०॥
सामाचार्यों अथ मात्रकयतनाधिकाररूपां एकविंशतितमा सामाचारी आहवासावासं पजोसवियाणं कप्पइ निग्गंथाणं वा निग्गंथीण वा तओ मत्तगाइं गिण्हित्तए, तं । जहा-उच्चारमत्तए, पासवणमत्तए, खेलमत्तए ॥ ५६ ॥ (२१) व्याख्या-"वासावासं" वर्षाकाले स्थितानां निर्ग्रन्धानां निर्ग्रन्थीनां च त्रीणि मात्राणि एव मात्रकाणि | ग्रहीतुं कल्पते, तथाहि उच्चारमात्रकं १ प्रश्रवणमात्रकं २ खेलमात्रकं ३ चेति, मात्रकाणां अभावे वेलाति-| क्रमेण वेगधरणे आत्मविराधना स्यात् । वर्षति च बहिर्गमने संयमविराधना स्यात् । अत्र चूर्णि:-"बाहिं नेतस्स गुम्मिआइगहणं तेण मत्तए वोसिरित्ता । बाहिं णित्ता परिवेइ, पासवणे वि अभिग्गहिओ धरेइ । तस्सा- ॥२६६॥ सइ जो जाहे वोसिरइ सो ताहे धारेइ ण निक्खिवह सुबंतो वा उच्छंगे ठितयं चेव उवार दंडए वा दोरेणं बंधइ गोसे असंसत्तिआए भूमीए अन्नत्य परिहवेई" ति ॥ इति एकविंशतितमा सामाचारी ॥ २१ ।।
For Private and Personal Use Only