________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyarmandir
आतापनीयानि २ ईर्यासमित्यादिषु समितेन यतनावता भाव्यं, ३ प्रतिलेखनाप्रमार्जनाशीलेन च भाव्यं ४ । यथा यथा एतानि स्थानानि करोति तथा तथा संयमः सुखाराध्यः सुकरो वा भवतीति, ततश्च मोक्षो भवति ।। इति एकोनविंशतितमा सामाचारी ॥१९॥ अथ स्थण्डिलाधिकाररूपां विंशतितमा सामाचारी आहवासावासं पजोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए न तहा हेमंतगिम्हासु जहा णं वासासु, से किमाहु भंते ! ?, वासासु णं उस्सपणं पाणा य तणा य बीया य पणगा य हरियाणि य भवंति ॥ ५५ ॥ (२०)
व्याख्या-"वासावासं" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च, यथा-वर्षासु तिस्रः उच्चारमश्ररावणभूमयः प्रतिलेखयितव्या भवन्ति तथा हेमन्तग्रीष्मकालयोः न । तत्राप्ययं विशेष:-तिस्रः उच्चारप्रश्रवण
भूमयः अनधिसहिष्णोः अन्तः कर्तव्याः १ अधिसहिष्णोश्च यहिस्तिस्रः कार्याः २ दूरव्याघाते मध्या तद्व्याघाते आसन्नेति तिस्रः ३ अत्र आर्षत्वात् "ग्रीष्म" शब्दो बहुत्वे स्त्रीलिङ्गश्च । वासामु किमिति तत् भूमित्रयकरणं तत्राह-"वर्षासु उस्सणं ति" प्रायो बाहुल्येन इत्यर्थः। प्राणाश्च शङ्खनकेन्द्रगोपकृम्यादयः १ तृणानि घासाः २ बीजानि-तत्तद्वनस्पतीनां अधुनोद्भिन्नानि ततो हरितानि जातानि ३ पनका-उल्लयः अथवा
KOXXXOXO-KOKAXXXXX
For Private and Personal Use Only