________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ९
॥ २६५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदेव ग्राह्यं, बन्धनादिप्रक्रियापरिहारात् । पुनः किंविशिष्टस्य साधोः ? । “अमिआसणियस्स” अमित्तासनि कस्य - अबद्धासनकस्य, स्थानात् स्थानान्तरं हि मुहुर्मुहुः सङ्क्रामन् सत्त्ववधे प्रवर्तते, अनेकानि वा आसनानि सेवमानस्य । पुनः किंविशिष्टस्य साधोः १ । “अणाताविअस्स" अनातापिनः - संस्तारकपात्रादीनां आतपे अदातुः, तत्र च पनकसक्त्यादयो दोषाः, उपभोगे च जीववधः । उपभोगाभावे च उपकरणमधिकरणमेवेति । पुनः किंविशिष्टस्य साधोः ? । असमितस्य ईर्यादिषु तत्र आद्यतुर्यपश्चसमितिषु असमितो जीवान् हन्ति, भाषाऽसमिती असमितः सम्पातिमान् हन्ति । एषणासमितौ असमितो हस्तमात्रादौ, अप्कायः परिणतः न वेति, लेहच्छन्दं न जानाति, आदाननिक्षेपसमितौ असमितः पुनः पुनः स्थाननिषीदनाऽदान निक्षेपादी जीवान् हन्ति । पुनः किंविशिष्टस्य साधोः ? । अभीक्ष्णं अभीक्ष्णं पुनः पुनः अमतिलेखनाशीलस्य, चक्षुषा अदृष्ट्वा । पुनः किंविशिष्टस्य साधोः ? । “अप्पमजणासीलस्स” अप्रमार्जनाशीलस्य - रजोहरणादिना अप्रमृज्य स्थानादिकर्तुः आभ्यां च दुष्प्रतिलेखिते दुष्प्रमार्जिते सङ्गृहीते, 'नञः' कुत्सार्थत्वात्, तथा तथा तेन तेन प्रकारेण संयमो दुराराध्यो- दुष्प्रतिपाल्यो भवति, यथा यथां तानि तानि स्थानानि करोति तथा तथा संयमाराधना दुष्करा इत्यर्थः । एतद्विपरीतस्य किं स्यात् ?, इत्याह- " अणायाणमेयं” कर्मणां असंयमस्य वा अनादानं एतत् तेन शय्यासनाभिग्रहवता भाव्यं, कथं अनादाने पतितव्यं १, इत्याह-उच्चा अकुचा च शय्या कर्तव्या, अधार्य सकृच पक्षान्तर्बन्धनीया । अड्डुकानि चत्वारि कार्याणि बद्धासनेन भाव्यं १ कारणे एवं उत्थानात् संस्तारकादीनि
For Private and Personal Use Only
एकोनविं
शतितमा सामाचारी
॥ २६५ ॥