________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-"वासावास" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च अनभिगृहीतशय्यासनकेन भवितुं न कल्पतेन युक्तं, न अभिगृहीतानि शय्यासनानि येन सः अनभिगृहीतशय्यासनः, अनभिग्रहीतशसय्यासन एवं अनभिगृहीतशय्यासनिक, "स्वार्थ इकः” तेन यतो वर्षासु साधुना मणिकुहिमेऽपि पीटफल
कानि अभिग्रहवता एव भाव्यं इत्यर्थः । अन्यथा शीतलायां भूमौ शयने आसने च कुन्ध्वादिप्राणविराधना अजीर्णादिदोषाः स्युः। एतच कर्मणां दोषाणां वा आदान-उपादानकारणं-एतत् किं अनभिगृहीतशय्यासनिकत्वं अथवा अभिग्रहो-निश्चयः? स्वपरिगृहीतमेव शय्यासनं मया भोक्तव्यं न अन्यपरिगृहीतं, न अभिग्रहो अनभिग्रहः । आदानत्वमेव द्रढयति-"अणभिग्गहि"त्यादि । सुगम, यत् एवंविधस्य साधोः संयमो दुराराध्यो-दुष्प्रतिपाल्यो भवति । किंविशिष्टस्य साधोः। “अणुच्चाकुइअस्स" अनुचाकुचिकस्य "कुचपरिस्पन्दे" अकुचोऽपरिस्पन्दो-निश्चलो यस्य कम्बिका न चलन्ति, अदृद्धबन्धने हि सङ्घर्षात् मत्कुणकुन्ध्वादिवघः स्यात्, उच्चा हस्तादि यावत् येन पिपीलिकादिवधो न स्यात्, सादिः वा न दशेच । उचा चासौ अकुचा च उच्चाकुचा कम्बादिमयी शय्या, सा विद्यते यस्याऽसौ उच्चाकुचिका, न उचाकुचिकः अनुचाकुचिकानीचः सपरिस्पन्दशय्यासनः तस्य । पुनः किं विशिष्टस्य साधो? । “अणट्ठाबंधिस्स" अनर्थयन्धिनः, पक्षमध्ये अनर्थक निष्मयोजनं एकवारोपरि द्वौ त्रीश्चतुरो वारान् कम्बासु बन्धान ददाति चतुरुपरि बहूनि वा अडकानि बध्नाति, तथा च स्वाध्यायपलिमन्धादयो दोषा भवन्ति, यदि च एकाङ्गिक चम्पकादिपढ़ लभ्यते तदा
कल्प०४५
For Private and Personal Use Only