________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०९
एकोनविंशतितमा सामाचारी
॥२६४॥
लक्षणं "इमं ता" इत्यादि संयतिः एवं वदेत्-'हे आर्य! त्वं इदं वस्त्रादि तावत् मुहूर्तमानं जानीहि-विभावयेः, “जावताव ति" भाषामात्रं यावदर्थे, अहं गृहस्थगृहादी आहाराद्यर्थ यामि, तदा स च संनिहितसाधुः "से" तस्य उपधिचिन्तनेन इच्छाकारयितुः प्रतिशृणुयात्-अङ्गीकुर्यात्, वचनं इति शेषः, तदा तस्य विहारभूमि वा विचारभूमि वा गन्तुं खाध्यायं वा कर्तु कायोत्सर्गे वा स्थातुं सर्व कल्पते । अन्येन साधुना अङ्गीकरणाभावे तु न कल्पते सर्व पूर्वप्रतिपादितदोषः सद्भावात् ।। इति अष्टादशी सामाचारी ॥१८॥
अथ शय्यासनाभिग्रहाधिकाररूपां एकोनविंशतितमा सामाचारी आहवासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्गहियसिज्जासणियाणं इत्तए, आयाणमेयं, अणभिग्गहियसिज्जासणियस्स अणुच्चाकूडयस्स अणट्राबंधियस्स अमियासणियस्स अणातावियस्स असमियस्स अभिक्खणं २ अपडिलेहणासीलस्स अपमजणासीलस्स तहा तहा संजमे दुराराहए भवइ ॥ ५३ ॥ अणादाणमेयं, अभिग्गहियसिज्जासणियस्स उच्चाकूइयस्स अट्टाबंधियस्स मियासणियस्स आयावियस्स समियस्स अभिक्खणं २ पडिलेहणासीलस्स पमजणासीलस्स तहा २ संजमे सुआराहए भवइ ॥ ५४॥ (१९)
॥२६४॥
For Private and Personal Use Only