________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीभगवतो राज्यस्थापना
कल्पसूत्र विनीताः पुरुषाः अत्र जाताः, तत एषा नगरी विनीता।" अथ सा कीदृशी । इन्द्रेण वैश्रमणपाश्र्थात् निर्मा- कल्पलता पिता । तदाह-द्वादशयोजनदीर्घा नवयोजनपृथुला अष्टद्वारा महाविषमवमा, ईशाने कोणे नाभिराजस्य चतुरस्त्रं व्या०७ सप्तभूमिकं गृहं कृतं १, पूर्वस्यां दिशि सप्तभूमिकं भरतगृहं २ | आग्नेयकोणे बाहुबलिगृहं । तेषां मध्ये एकविं॥१९९॥
शतिभूमिकं श्रीऋषभदेवगृहं अष्टोत्तरशतं च श्रीजिनभवनानां । पुनरपि अश्वाः १ हस्तिनः २ गावश्च ३ एते
चतुष्पदा गृहीताः, तेषां संग्रहः कृतः। पुनरपि केऽपि युगलिनः अपराधानुसारेण दण्डदायका उग्राः स्थापि*ताः१। केपि गुरुस्थानीयत्वेन भोगाः स्थापिताः२। केऽपि मित्ररूपा मण्डलाधिपत्यकरणेन राजन्याः स्थापिताः
३। शेषाः पदातिप्रमुखाः क्षत्रियाः स्थापिताः। इति चतुर्धा पुरुषव्यवस्था कृता। अथवा ब्राह्मण १क्षत्रिय २ वैश्य ३ शूद्र ४ भेदात् तत्र-"ब्राह्मणा ब्रह्मचर्येण १, क्षत्रियाः शस्त्रपाणयः । कृषिकर्मकरा वैश्याः ३, शूद्राः प्रेक्षणकारकाः।४।" ॥१॥ पुनः विनीतानगरीमध्ये चतुरशीति चतुष्पथाः स्थापिताः, तथाहि-सौगन्धिक १ गान्धिक २ ताम्बूलिक ३ कान्दबिक ४ सुवर्णकार ५ मणिकार ६ सौवर्णिक ७ मणिवर्तक ८ नाणावतेक ९ सुखभक्षिकाकारक १० कणापणिक ११ दौयिक १२ चर्मकारक १३ कांस्यकार १४ मालाकार १५ घृतापणिक १६ तैलिक १७ सौत्रिक १८ कापासिक १९ भाण्डशालिक २० काष्ठशालिक २१ रजक २२ पट्टिक २३ वैज्ञानशालिक [२४ तन्तुबाय २५ तुन्नारक २६ नापित २७ सूचीपति २८ चित्रकर २९ लेखक ३० गांछिक ३१ कल्पपाल ३२ भ्राष्टकारक ३३ बन्धारक ३४ अङ्गारक ३५ नीलीकारक ३६ पत्रकारक ३७ नीलवर्णकारक ३८ प्रमुखाः चतुष्पथाः॥
॥१९९॥
For Private and Personal Use Only