Book Title: Jin Shatakam Satikam Author(s): Lalaram Jain Publisher: Syadwad Ratnakar Karyalay View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रंथमाला। आश्रयाज्जायते लोके निःप्रभोऽपि महाद्युतिः। गिरिराजं श्रितःकाको धत्ते हि कनकच्छविः ॥ ७ ॥ वृषभादिचतुर्विंशतितीर्थकराणां तीर्थकरनामकोदयवायुसमूहोद्वार्ततसौधर्मेन्द्रादिसुरवरसेनावारिधिभाक्तिकजनसमुपनीतेज्याविधानार्हाणां घाति कर्मक्षयानन्तरसमुद्भूतविषयीकृतानेकजीवादिद्रव्यत्रिकालगोचरानन्तपर्यायकेवलज्ञानानां स्तुतिरियं जिनशतकनामेति । तस्याः समस्तगुणगणोपेतायाः सर्वालंकारभूषितायाः घनकठिनघातकर्मेन्धनदहनसमर्थायाः तार्किकचूड़ामणिश्रीमत्समन्तभद्राचार्यविरीचतायाः संक्षेपभूतविवरण क्रियते । मुरजबन्धः । श्रीमज्जिनपदाभ्याशं प्रतिपद्यागसां जये । कामस्थानप्रदानेशं स्तुतिविद्यां प्रसाधये ॥१॥ श्रीमजिनेति । पूर्वार्द्धमेकपंक्त्याकारण व्यवस्थाप्य पश्चार्द्धमप्येक पंक्त्याकारेण तस्याधः कृत्वा मुरजबन्धो निरूपयितव्यः । प्रथमपंक्तेः प्रथमाक्षरं द्वितीयपंक्ते द्वितीयाक्षरेण सह, द्वितीयपंक्तेः प्रथमाक्षरं प्रथमपंक्ते द्वितीयाक्षरेण सह एवमुभयपंक्त्यक्षरेषु सर्वेषु संयोज्यम् । एवं सर्वेऽपि मुरजवन्धा दृष्टव्याः । अस्य विवरणं क्रियते । श्रीविद्यते यस्य स श्रीमान् जिनत्य पदाभ्याशः पदसमीपं जिनपदाभ्याशः श्रीमांश्चासौ जिनपदाभ्याशश्च श्रीमजिनपदाभ्याशस्तं श्रीमजिनपदाभ्याशं । प्रतिपद्य संप्राप्य प्रतिपद्येति For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 132