Book Title: Jambuswami Charitam Author(s): Shubhankarvijay Publisher: Ramanlal Chhotalal Parikh View full book textPage 8
________________ SinMahavir dain AradhanaKendra www.kobatirtm.org Acharya.seKailassagarsunGyanmandir अष्ट श्रीजम्बूस्वामिचरित्रम् । प्रसंगः। व्यधात् । पार्थ्यमानोऽर्थिभिस्तेभ्योऽत्यर्थमर्थममन्दानन्दतुन्दिलो व्यतार्षीच । शुभदिने सानन्दः श्रेष्ठी स्वयं सूनोर्जम्बूतरुनाम्ना जम्बूरिति । नामाकर्षीत् । पितरौ तं शिशुमकगतमुल्लापयन्तौ रात्रिन्दिवं विस्मृतान्यकाौँ हर्षप्रकर्षवातुलावभूताम् । जम्बूकुमारोऽपि पित्रोरकाल- कारीभूतः क्रमेण तयोर्मनोरथवद् ववृधे । पित्रोराशालतातरुः स ऋषभनन्दनः क्रमेण यौवनवयः प्रपन्नः पाणिपीडनयोग्यो बभूव । ___ इतश्च तस्मिन्नेव नगरे समुद्रप्रियनाम्नः श्रेष्ठिवर्यस्य पद्मावती नाम्नी खी बभूव । सम्पदा समुद्रस्येव समुद्रदत्तनाम्नः श्रेष्ठिनो गुणवती कनकमालाऽभिधा स्त्री बभूव । तथाऽद्भुतलक्ष्म्या गरीयसः सागरदत्तस्य विनयवती विनयश्री नाम्नी भार्याऽभवत् । परमर्या कुवेरस्येव कुबेरदत्तनाम्नः श्रेष्ठिनः शीलधनवती धनश्री नाम्नी पत्नी बभूव । एतेषां जायापतीनां दिवश्युता विद्युन्मालिसुराङ्गनाः क्रमेण वक्ष्यमाणनाम्ना बभूवुः । यथा-समुद्रश्रीः १ पद्मश्रीः २ पद्मसेना ३ कनकसेना ४ चेति। तथा कुबेरसेनस्य कनकवती नाम्नी भार्या बभूव । श्रमणदत्तनाम्नः श्रीषेणा नाम्नी पत्नी बभूव । वसुषेणनाम्नो वीरमती नाम्नी प्रियाऽभूत् , वसुपालित नाम्नो जयसेना नाम्नी वनिताऽभूत् । तेषां दम्पतीनां क्रमेण नभःसेना १ कनकधीः २ कनकवती ३ जयश्री ५ ति दुहितरोऽवातरन् । एकदा तासामष्टानामपि कन्यानां पितरो बिनयोत्सुका जम्बूजनकमुषमं प्रार्थयामासुः-"आर्यवर्य | अस्माकं रूपलावण्यमनोहराः कलाजलधिपारदृश्वर्यो गुणेश्वर्योऽप्सरःसमा अष्टौ कन्याः सन्ति । तासां विवाहकल्याणमित्रं यौवनं प्राप्तमस्ति । तदनुरूपं वरं तव जम्बूकुमारं नन्दनमालोकामहि । ये कुलशीलवयोरूपमभृतयो वरगुणा अपेक्ष्यन्ते ते सर्वे जम्बूकुमारे दृश्यन्ते । अयं बरो बहुपुण्यर्लभ्योऽस्ति । तासामस्मत्कुमारीणां त्वत्प्रसादादयं जम्बूकुमारो दक्षजाना चन्द्र इव वरो भवतु । त्वं श्रीमान् कुलीनश्वासि, तत् त्वयि नः प्रार्थना न लज्जायै । किं बहुना ! सर्वथा विवाहसम्बन्धं विधायाऽस्माननुगृहाण " सूनुविवाहे स्वयमप्युत्कण्ठितस्तैः प्रार्थितवर्षभदत्तोऽपि ॥ ५ ॥ For Private And Personal use onlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65