Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 54
________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Achey Sur Keserun G endir श्रीजम्यूस्वामि- IN चरित्रम् । नागभीदृष्टान्तः। ॥५१॥ निःशङ्कः तं पुरोहितमग्रे चके । पुरोधास्तेन सहेष्टं स्थानं ययौ । तत्र निःशको वैषयिकं सुखमन्वभवत् । अत्र चायमुपसंहारः-तत्र जीवः सोमदत्तसदृशोऽस्ति, सहमित्रमित्रस्य तुल्यो विग्रहो भवति, यतोऽयं विग्रहः सस्कृतोऽपि कर्मराजकृतायां मरणापदि जीवेन सह मनागपि नागच्छति । सर्वे स्वजनबान्धवाः पर्वभित्रसमाना ज्ञेयाः, यतस्तेऽखिलाः स्मशानचत्वरं गत्वा निवर्तन्ते । शर्मनिवन्धनं धर्मस्तु प्रणाममित्रसहशो ज्ञातव्यः, यो धर्मः परलोकेऽपि गच्छता जीवेन सह गच्छति । तस्माद्हे मनस्विनि ! अहमैहलौकिकसुखास्वादमूढः परलोकसुखं धर्म न त्यक्ष्यामि । ततो जयश्रीरुवाच-" हे नाथ ! बुद्धिमन् ! त्वं कूटकथानकैाँ नागश्रीवत् परं मोहयसि । नागश्रीकथा । तथाहि-रमणीयनामपुरे कथापियो राजाऽभूत् । स वारे वारेण पौरेभ्यः प्रतिदिन कथां कथयामास । तस्मिन् पुर एको ब्रामणो दैन्यपीडितः संपूर्ण दिनं आम ग्राम कण भिक्षयाऽजीवत् । एकदा निरक्षरवरस्य तस्य विप्रस्य कथानकदिनमभूत् । स चेतसि चिन्तयामास" स्वनामकथनेऽपि मम जिला सन्निपातवती सदा स्खलति चेत्तदा कथाकथने कथं समर्था भविष्यति!। यद्यहं कथां कथयितुं न जान इति वदामि तदाऽहं कारागारे नीये, ततः का गतिमें भविष्यति !" तस्य विप्रस्य कुमारीकन्या तं चिन्तितमुखं दृष्ट्वा पप्रच्छ"तब का चिन्ता" ततो विप्रश्चिन्ताकारणं कथयामास । ततः कन्योवाच-“हे पितस्वं चिन्तां मा कृथाः, त्वद्वारेझं राजसमीपं गत्वा कयां कथयिष्यामि" इति स्नात्वा श्वेतवस्त्रं परिचाय राजसमीपं गत्वा जयाशिर्ष दत्वा सा राजानमुवाच-"राजस्वं कथां शृणु" राजाऽपि कन्यायास्तादृशधायन विस्मितो मृग उच्चैर्गीतिमिव कथां श्रोतुमुत्कर्णो बभूव । साऽपि कथयितुं प्रारेमे-" राजन् । इहैव पुरे नागशर्माग्निहोत्री द्विजोऽस्ति । स च कणमिकजीविकोऽस्ति । तस्य सोमश्रीनाम्नी भार्याऽस्ति, तस्याः कन्याऽहमस्मि, मम नाम नागश्रीरिति । PASS ॥५१॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65