Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 61
________________ Sun Mahavir Jain AradhanaKendra www.kobatirtm.org Acharya Sur Kallassagerar Gyanmandir श्रीजम्बूस्वामि- IN चरित्रम् । ॥५८॥ कूणिकनृपस्य वंदनार्थ गमनम् । निर्मिते अवलवने पर्यधात् । अथ कर्णतलयोः स्वच्छमुक्ताकिरणसमूहपूरिते सुधाकुण्डे इव मौक्तिककुण्डले दधौ । पुनईदये लावण्यनदीतीरस्थां फेनरेखामिव विमलमौक्तिकं हारमालम्बयामास । भूभारथरोऽपरकल्पवृक्ष इव स राजाऽन्यान्यपि सर्वाङ्गरत्नाळकरणानि बभार । पवनचश्चलाऽश्चलमाकाशस्फटिकषवलं तत्त्पन्नित्यन्तमिव चोलकं पर्यधात् । सुगन्धिपुष्पमाल्यगर्मितं कजलकांति प्रस्तचन्द्रवर्षर्तुमेषसमं धम्मिा मस्तके बबन्ध । शत्रुवारणः स राजा भद्रकारण भद्रवारणं सिंह इव पर्वतं निवेणित भारोहत् । स भूमिवासवो गगने विद्युल्लेखामिव कराभ्यां सणि नर्तयन् पादाभ्यां हस्तिनं प्रेरयामास । मम निर्भरैः पादधातैः पृथ्वी भरा माभूदिति स इस्ती कृपयेव मन्दं मन्दं गन्तुं प्रचक्रमे । ऊर्जितं गर्जन् मदजलं निरन्तरं वर्षन् स इस्ती जनेन भूमिगतो मेघ इवालक्षि । तथाऽऽससादिनो नृत्यन्त इव वक्ष्यन्तो मुखामस्पृष्टजानवो लक्षशोऽश्वास्तं गजं प्रायत्रुः । तत्पुरो विजयसूचकानि तूर्यवर्याप्यनेको तदायुक्त पुरुषैः परस्परं संवलितशब्दमवाघन्त । तूर्याणामभितः प्रतिध्वनिभिरपौरुषेय शब्दायमानमुद्दामं वाद्यान्तरं नमोऽभवत् । मथ सपरिच्छदो राजा श्रीसुधर्मस्वामिगणधर चरणकमलशोमितं वनोद्देशं प्राप। राजशिरोमणिः कुम्भोपरि सृणिदण्डप्रहारेण स्थापिता गजात् कक्षा गृहीत्वाऽवततार । स्यक्तपादुको दूरीकारितच्छत्रचामरो महाभुजो भूपो वेत्रिबाहुमपि विहाय वन्दारूब्छावकान् पश्यन् उद्यद्रोमाञ्चकन्चुकं स्वमपि पश्यन् भक्त्या साधारण जनसमं स्वं मन्यमानः श्रीसुधर्मस्वामिनं दृष्ट्वा बद्धाजलिना मुकटोपरि मुकटीकुवोणः स नृपो दूरादपि ववन्दे । भक्ताग्रगण्यो राजा तं नत्वा तत्पुरतस्तन्मुखदत्तदृष्टिस्तच्छिष्यपरमाणुरिवोपविवेश । ततः प्राणिकारुणिको गणधरः ओतृश्रोत्रामृतप्रपां धर्मदेशनामकरोत् । देशनावसाने गणभृच्छिष्यान् पश्यन् राजा जम्बूस्वामिनमुद्दिश्य परमेश्वरं पप्रच्छ-“हे भगवन् ! एतस्य महर्षे रूपं सौभाग्यं तेजश्च सर्वमप्यद्भुतं दृश्यते; तथाहि ॥५८॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65