Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामि
चरित्रम् |
1140 11
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
1
सुधर्मस्वामिगणधरस्य चम्पायां आगमनम् ।
एकदा गणधरः श्रीसुधर्मा जम्बूस्वाम्यादिशिष्ययुतो भुवि विदरंश्धम्पानगरीं जगाम उद्भूतधर्मकल्पतरुसमः परमेश्वरो गणधरः स नगरपरिसरारामे समवासरत् । ततस्तं वन्दितुं नगरलोका भक्त्या हर्षितहृदया गन्तुं प्रावृत्तन् । झणझणशब्दयुतनूपुरा काश्चित् नार्यः पादचारेण ऋथधम्मिल्लस्थपुष्पमास्याः जग्मुः । काश्चिच नार्यः पतिभिः सह रथमारुह्य शीघ्रं शीघ्रं रथान् चालयामासुः । काश्चिच्छ्राविकात्यक्तान्यकर्माणो कपियुतवृक्षा इव कट्यारोपितवाला गृहान्निर्जग्मुः केऽपि मद्देभ्याश्वलत्कुण्डला अश्वारूढा घवलच्छत्रैर्दिवं पुण्डरीकिणीं कुर्वाणा निर्जग्मुः । शीघ्रं गच्छतां श्रीमतां परस्परसङ्घर्षताडनान्निपतितैरमुक्ताफलैम र्गि भूमिर्दन्तुराऽभूत् । तदा तस्यां नगर्यां कूणिको नाम राजा गच्छतो लोकान् दृड्डा वेत्रवरं पप्रच्छ
कूणिकनृपस्य वंदनार्थ गमनम् ।
" अद्य किं कस्याधिदेव्या यात्रा पुरसमीपे वर्तते । कस्यापि वा महाश्रेष्ठिन उद्यापनिकोत्सवोऽस्ति !, किं कौमुदीसमानः कोऽपि महानुत्सवः समागतः १ अथवोद्यान चैत्ये पूजाविशेषो वर्तते ?, किंवा कोऽपि महात्मा जैनमुनिः समागमत् । यदेषोऽखिलनगरीजनः शीघ्रं गच्छति । " तदैव वेत्रधारी विज्ञाय तद्वृत्तं राजानं व्यजिज्ञपत्-" हे राजन् ! इह श्रीसुधर्मस्वामी गणधरवरः समवसृतो विराजते, अयं सर्वः पुरजनस्तत्पदान् वन्दितुं याति, तबैकालपत्राद्धर्मराज्यं विजयते " राजोवाच " हे वेत्रिन् ! अयं पुरजनो धन्योऽस्ति, यः श्रीसुधर्मस्वामिवन्दने एवं त्वरते । अहो अहं जाग्रदवस्थोऽपि सुषुप्तावस्थतां पापम्, यतोऽहं गणधरदेवमपि नाज्ञासिषम् तस्मादहमपि गणभृच्चरणान् शीघ्रं गत्वा वन्दे, यतस्ते पवनवद् प्रतिबद्धा एकत्र न तिष्ठन्ति इति प्रफुल्ल कमललोचनो राजोत्थाय चन्द्रकिरणैरिव
|
1
For Private And Personal Use Only
सुधर्म
स्वामिगणधरस्य चम्पायां
आगमनम्।
114011

Page Navigation
1 ... 58 59 60 61 62 63 64 65