Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामिचरित्रम् |
॥ ५६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ जम्बूलियो विज्ञातदृदनिर्णयाः प्रतिबुद्धाः क्षमयित्वैवं जगदुः-" हे नाथ ! त्वं स्वयं यथा निस्तरसि तथाऽस्मानपि भवान्नि स्वारय, यतो महाशया आत्मकुक्षिम्भरित्वेन न संतुष्यन्ति । " ततो जम्बूनाम्नः पितरौ श्वशुरा बान्धवाश्वोचुः " हे जम्बूः । त्वं साधूक्तधर्माsसि, अतः परनस्माकं परिव्रज्या भवतु ।
जम्बूप्रभवयोः प्रव्रज्या ।
ततः प्रभवनामकचौरोऽप्युवाच " हे मित्र ! अहमपि शीघ्रं पितॄनापृच्छ्य तव परित्रज्यासहायो भविष्यामीह न संदेहः " " हे सखे ! तवाविघ्ननस्तु, प्रतिबन्धं मा कृथाः " इति जम्बूकुमारोऽपि प्रभवं चौरं प्रत्युवाच। ततो महामना जम्बूकुमारः प्रातःकालेऽधि निष्क्रमणोत्सवं स्वयमुचैश्चकार । कल्पवित् स खाखा सर्वाङ्गीणं चाङ्गरागं कृत्वा रत्नमयानलङ्कारान् दधौ, अयं कल्पोऽस्तीति ।
अथानादृतेन देवेन कृतसन्निधिर्जम्बूर्नर सहसे गोद्वायां शिविकामारुरोह । निनदन्मङ्गलवाद्यः पठन्मङ्गलपाठक उत्तार्यमाणलवणः स्वकीयमानमङ्गलः कल्पतरुरिव विश्वजनहितं दानं कुर्वाणो लोकैः प्रशस्यमानः काश्यपगोत्रजातो जम्बूः सुधर्मस्वामिगणधरचरणकमलपूर्व कल्याणसम्पदास्पदं तं वनोद्देशं जगाम । स निर्ममो गणधरशोभिताऽऽरामद्वारदेशे संसारादिव शिविकामध्यादुचतार । तत्राssue बुधितारकान् सुधर्मस्वामिपादान् पञ्चाङ्गस्पृष्टभूष्पृष्ठः सन् गणधरतो दीक्षामिच्छुजिज्ञपत्-“हे परमेश्वर ! भवसागरतरीं प्रव्रज्यां मम सस्वजनस्याप्यऽनुकम्प्य देहि " तदा पञ्चमगणधरोऽप्येवं पार्थितः सपरिवाराय तस्मै यथाविधि दीक्षां ददौ । अन्येयुः प्रभवोऽपि पितॄनापृच्छय तत्र समागतो जम्बूकुमारमनुगच्छन् परिवज्यामग्रहीत् । स प्रभवः श्रीजम्बूस्वामिचरणकमलमरालोऽभवत् । यतो गुरुणा तस्यैव शिष्यत्वेन समर्पितः । ततो जम्बूमुनिः श्रीसुधर्मस्वामिगणधरपादारविन्द मिलिन्दः दुःसहान् परीषहानगणयन् पृथिवीं व्यहार्षीत् ।
For Private And Personal Use Only
S
जम्बूप्रभावयोः
प्रव्रज्या ।
।। ५६ ।।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65