Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 58
________________ Acharya S agar Samad श्रीजम्बूस्वामिचरित्रम् ललितान दृष्टान्तः। ॥५५॥ चेटी द्वारदत्तष्टिरादागच्छन्तं राजानं हटा राश्ये शापयाञ्चकार । दासी राज्ञी च तं जारमुपरितनमार्गेणावकरराशिमिव शी बहिश्चिक्षिपतुः । स जारो गृहात् पश्चात्तमप्रदेशे महावटे पपात । ततो गुहायामुलूक इव निलीय स तत्रैवास्थात् । दुर्गन्धिमयेऽशुचौ तत्र कूपे नरकायास इव पूर्वसुखं स्मरत्रवातिष्ठत; सोऽचिन्तयश्च-" यदि कथंचिदस्मात् कूपादई निःसरिष्यामि तदाऽभीडशपरिणामभोग न करिष्यामि । " दासी राज्ञी च तत्र कूपे स्थिताय सम्मै कृपयोच्छिष्ट चिक्षिपतुः, तेनैव स जारोऽजीवत् । ततो वर्षासमये समागते गृहप्रसवणजलेन स कूपः पातकेन दुष्टधीरिव पूर्णोऽभूत् । स तेन परमवेगेन जलेन शवपद् वाढयिस्वा वपद्वारिकया बाबपरिखायामनीयत, स जलपूरेण महदलाबुफलमियाऽऽन्दोल्य परिखातीरेऽक्षेपि । ततः स जलेनातों मुमूर्छ । देवात् कुलदेवतयेवाऽऽगतया धाच्या दृष्टः संगोप्य गृहे नीतच । स कुटुम्बेन म्नानाभ्यङ्गभोजनादिभिः पाल्यमानच्छिन्न रूटवृक्ष इव पुनर्नवीनोऽभूत् । अत्रायमुपनया-यथा हि ललितानः कामभोगेषु समासक्तस्तथा देहिना जीवः । यथा राजीमोगस्तथा वैषयि सुखम् , सदापातमधुरं परिगामातिदुःखदम् । गर्भः कूपवाससमानः, मातृभुक्तानपानाधैर्य गर्भपोषणं तदुच्छिष्टभोजनसहशम् । यो मेवजलपूरिताद् विष्ठाकूपात् खालेन निर्गमः स पुद्रलोपचिता गर्भाद् योनितो निर्गमः । प्राकाराद्वहिस्थे परिखोस्सने यत् पतनं तत् सूतिकागृहे गर्भवासात् पतनम् । जलपूर्णपरिखातटस्थस्य या मूछा सा जरायुशोणितमयात् कोशाद् बहिःस्थस्य मूच्र्छा । या देवपालिका धात्री सा कर्मपरिणामसन्ततिस्त्वया ज्ञातव्या । हे प्रियाः । यदि राज्ञी ललिताङ्गरूपमोहिता सती तं चेटीद्वाराऽन्तःपुरं पुनः प्रवेशयेचदा ललितान: किं तत्र प्रविशेत् ।।" पम्य ऊचु:-" सोऽरूपधीरपि कथमनुमूर्त विष्ठागर्तपात दुःखं स्मरन् राझोऽन्तःपुरं प्रविशेत् ।।" ततो जम्बूरुवाच-" हे मियाः । सोऽज्ञानवशेन प्रविशेद पि, अहं तु गर्मसंक्रान्तिहेतुं नाऽऽवयिष्यामि ।" ॥५५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65