Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
श्री जम्बूस्वामि
चरित्रम् ।
॥ ३७ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
भवावः, अतस्त्वं चाण्डालकन्यां त्यज । वैताव्ये खेचर्य: स्वयंवरा भाविन्यः सन्ति । " सलज्जो विद्युन्माख्यवदत्-" हे सुवत ! त्वं सिद्धविद्योऽस्यतो कृतकृत्यः सन् वैतादयं याहि । अहं तु नियमपादपं भग्नवांस्ततोऽथमः कथं नियमतरुजन्यं विद्यासिद्धिफलं प्राप्नुयाम् । हेऽनम ! इमां बराकीं जातगभीं त्यक्तुं नाहं शक्नोमि । पुनरसिद्ध विद्योऽहं स्वया सह गन्तुं जिह्रेमि । एवं साधितविद्यो याहि, अहं पुनरसाधितविद्यो बन्धूनां मुखं कथं दर्शयिष्यामि । अमुना प्रमत्तेन मयाऽऽत्मनैवात्मा वञ्चितः अहमिदानीमुयोगतत्परो विद्यां साथयिष्यामि त्वं मां आतरं हृदि धारयन् वर्षान्ते पुनरिहाऽऽगच्छेः, तदा त्वया सह साधितविद्योऽहं यामि । " ततो मेपरथश्चाण्डालीप्रेमपाशबद्धं विद्युन्मालिनं नेतुमशक्त एकाक्यपि वैताव्यगिरिं ययौ । तत्र बन्धुभिः स पृष्ट:-" त्वमेकाकी किं समागतोऽसि ! तब आता कास्ति ? " इति श्रुत्वा प्रोवाचासौ विद्युन्मालिवृत्तान्तमादितः ।
अवसरे विद्युन्मालिनः सा चाण्डाली प्रिया पुत्रमजीजनत् । स विद्यासिद्धिमिव तां प्राप्यामोदत । स कुबुद्धिस्तस्यां म्लेच्छयां परमप्रेम्णाssसत्तत्या च विद्याधरसुखं व्यस्मरत् । सा काणदन्तुरा चाण्डाली विद्युन्मालिना सह यथासुखं क्रीडन्ती पुनरपि गर्भं दधौ ।
इतश्च विद्यासम्पन्नो मेघरथस्तत्र वर्षान्ते जगाम भ्रातृस्नेहवशात् । सोऽचिन्तयदेवम्-" अहं स्वर्गाङ्गनासदृशविद्याधरवधूटतोऽस्मि । स मे आता काणदन्तुरम्लेच्छी गार्हस्थ्यनरके स्थितः । अहं पुनः सप्तभूमे प्रासादे उद्यानशोभिते निवसामि स तु श्मशानास्थिव्यासे चाण्डालकुटीरके वसति । अहं नानाविधविद्यर्द्धिभिः सिध्यमानमनोरथोऽस्मि, स तु जीर्णवस्त्रधारी कदन्नमुक् चास्ति । " एवं विद्युन्मालिनि सौत्रात्रानुरूपं चिन्तयन् मेघरथो बसन्तपुरपचनं जगाम । तत्र गत्वा आतरमुवाच - " हे आत ! स्त्वं वैतान्यगिरौ विद्याधरसुखैश्वर्य महत्तरं कथं न भुझे ! " ततो विद्युन्माली विलक्षं हसित्वेदमूचे " हे आतः । इयं पत्नी मम बालवत्सा पुनर्गर्भवती
For Private And Personal Use Only
विद्युन्मालि
दृष्टान्तः ।
॥ २७ ॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65