Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
SinMahavir dain AradhanaKendra
www.kobatirtm.org
Achey Sur Keserun G
endir
श्रीजम्बू स्वामि चरित्रम् ।
स्थविरादृष्टान्तः ॥
॥४१॥
वपुषि व्यापपतुः । तदा परस्परं दन्तनखक्षतक्षतजशोणितचर्चितौ परिहितरक्तचोलकाविव तौ शुशुभाते । क्षणाद्वन्धं क्षणान्मोक्षं प्रयुञ्जानौ तावुभौ यथा धूतकारी कीडतस्तथा युध्यमानौ तौ रेजतुः । अन्ते वानरयूना मुष्टिप्रहारेण भन्मास्थि: स वृद्धकपिः शीघ्रं शीघ्रमपससार, मन्द मन्दं च त्वढौकत । ततो युवा वानरस्तं वृद्धवानरमपसरन्तं लोष्टपातेन जघान, तेन वृद्धवानरमस्तकं पुस्फोट । ततः प्रहारपीडितः स वृद्धो यूथपतिर्वानरो दूरोस्पातिमुक्तवाणवनंष्ट्वा दूरं ययौ । ततः महारपीडितस्तृषितः स भ्रमन्नेकस्मिन् गिरौ प्रक्षरच्छिलाजतु ददर्श । स जलबुद्ध्या शिलाजतुनि मुखं न्यधात् । ततस्तन्मुख भूमेरुत्थितमिव तत्रैव विलग्यास्थात् । तेन मन्दमतिना मुखमाकर्षानीति शिलाजतुनि निक्षिप्तौ बाहू लगित्वा तस्थतुः । ततस्तेन क्षिप्तौ पादौ मुसहस्तवद् विलग्नौ । अथ स कीलितपञ्चाङ्ग इव तत्रैव कालधर्ममवाप । पाणिपादाऽवद्धः सः वामरो यदि मुखमाकर्षत् तदा मुच्येत शैलजलात् , अत्र न संशयः । यथा जिहेन्द्रियमात्रलुब्धो मुग्धो वानरो नष्टः, एवं शैलेयनिभासु नारीषु पञ्चससपैहषीरपि मजन् देही कथं न विनश्येत् !, तथाऽहं तु नास्मि । अथ नभासेना कृताञ्जलि ऋषभनन्दनमुवाच-" त्वं स्थविरावन्मा मूः, स्थविरायाः कथा यथा
स्थविराकथा एकस्मिन् पामे नामतो बुद्धिः सिद्धिश्च स्थविरे बभूवतुः । ते द्वे अपि परस्परसख्यौ नित्यमत्यन्तदुःस्थिते अभूताम् । तस्य प्रामस्य बहिः प्रतिष्ठितः प्रसिद्धो भोलका नामाभीप्सितधनप्रदो यक्षोऽस्ति । तं यक्ष बुद्धिनाम्नी दीना स्थविरा प्रत्यहमाराधयामास । सा त्रिसन्ध्यबामपि देवकुलं समाजयति स्म, यक्षाय च पूजनपुरस्सरं नैवेद्यमर्पयाश्चके । अन्यदा तुष्टो यक्षस्ते किं ददामीति जगाद, यत आराध्यमानः
कपोतोऽपि प्रसीदति । ततो बुद्धिरुवाच-" यदि स्वं तुष्टोऽसि तदा तद्देहि येन मुखसंतोषभागहं जीवामि"। यक्ष उवाच-" हे स्थविरे
॥४१॥
For Private And Personal use only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65